चाक्षुषत्वात् । नानेकद्रव्यद्रव्यगम्, आलोकनिरपेक्षवेदनत्वात् । ततो भूरूपमारोपितं तम इति चेत्, न, विचारासहत्वात् । स हि अनुभूयमानारोपो वा सावित्रतेजसि पित्तपीतिमवत्, स्मर्यमाणारोपो वा नेदीयस्यणीयस्यपि महत्त्ववत्स्यात् । नाद्यः । आलोकं विना तदननुभवात् [१] । तुल्यमभावेऽपीति चेत्, न, अभावग्रहेऽपि प्रतिपक्षापेक्षायां तद्ग्रहव्याघातात् । रूपे तु तदनपेक्षाया दोषात् [२] । नेतरो, गगनादेरतीन्द्रियत्वात् । क्षित्यादेरा-
न्यायलीलावतीकण्ठाभरणम्
चाक्षुषत्वानुपपत्तिरिति भावः । अवयविसमवेतत्वे दोष माह -- नानेकेति । अतथारोपितं पार्थिवनीलरूपं तमो न त्वभाव इत्युपसंहरति-- तत इति । स होति । लवणगतपित्तद्रव्यगतः पीतिमा यथा अनुभूयमान एवारोप्यत इत्यर्थ: । नेदीयसीति । चक्षुर्निकटवर्त्तिनि केशादौ महत्त्वं स्मर्थ्यमाणं यथाऽऽरोप्यत इत्यर्थः । आलोकमिति । अनुभूयमानतैव नीलरूपस्य आलोकं विना न स्यात् । अतथाऽऽरोप इत्यर्थः । तुल्यमिति । आलोकं विना अभावो धर्म्मी नीलरूपं वा कथंभासतामित्यर्थः । अभावेति । आलोकाऽ. भाव एव तमस्तद्ग्रहे च नालोकाऽपेक्षा न हि घटाभावग्रह इत्यर्थः । रूपे विति । रूपं चालोकानपेक्षं न भासत एव किमारोप्यतामित्यर्थः । गगनादेरिति । तथा च कुत्र धम्मिनि स्मर्थ्यमाणं नीलरूपमारोप्यतामित्यर्थः । क्षिस्यादेरिति । आरोपविषयस्य स्वरूपयोग्यतायामपि सहका-
न्यायलीलावतीप्रकाशः
असमवेतद्रव्य समवेतद्रव्य समवेतमित्यर्थः । आलोकेति । आलोकानपे'क्षचक्षुर्ग्राह्यत्वादित्यर्थः । भूरूपमिति । पार्थिवं नीलं रूपमित्यर्थ: । 'तदननुभवाव' नीलरूपाऽननुभवादित्यर्थः । तुल्यमिति । आलोकभावेऽपि नीलरूपारोपो नालोकं विना स्यादित्यर्थः । तद्ग्रहेति । तथा सत्यालोकाभाव एव न स्याद्यग्रहणे तेजोऽपेक्षा स्यादित्यर्थः । स्मर्थमाणारोपविषयो नित्योऽनित्यो वा ? आद्ये गगनेति । अन्त्ये क्षित्यादेरिति । आरोग्य-
न्यायलीलावतीप्रकाशविवृतिः
आलोकानपक्षचक्षुर्ब्राह्यत्वादिति । नन्वसवयोरपि (?) प्रतीतिरूपो व्यवहार ए