सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४३
न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता


इति च भ्रमः । तमो नाभावात्मकं विव्याद्यात्मकतया [] वेदनात् । न च नित्यं, रात्रिन्दिवविभागानुपपत्तेः । अनित्यं च न चलनात्मकं, तथाऽनवभासात् । अचलनात्मकं च न गुणवत्, आरभ्यत्वानारभ्यत्वाभ्यां व्याकोपात् । न निर्गुणमद्रव्यद्रव्यगं


न्यायलीलावतीकण्ठाभरणम्

लरूपारोपस्तत्र चासंसर्गाग्रह एव सारूप्यमित्यभिप्रायेण परिशेषभवतारयति----- तम इति । विध्यात्मकतयेति । विधिमुख प्रत्यय वेद्यत्वादित्यर्थः । सामान्यविशेषसमवायानां भेदकमाह --- न चेति । तमः प्रध्वंसमन्तरेण रात्रिन्दिवविभागानुपपत्तेरिस्यर्थः। कर्म्म तो भेदकमाह - अनित्यं चेति । तथेति । तमोयुक्तं गृहादौ चलतीति प्रत्ययप्रसङ्गादित्यर्थः । द्रव्याद् भेदकमाह —- अचलनात्मकं चेति । आरभ्यत्वे निःस्पर्शत्वानुपपत्तिरनारभ्यत्वे चानित्यत्वानुपपत्तिरित्यर्थः । गुणभेदकमाह - न निर्गुणमिति । 'अद्रव्यद्रव्यगं' असमवेतद्रव्य समवेतमित्यर्थः । ततश्च परमाणुगुणत्वे

न्यायलीलावती प्रकाशः

भ्रमे आरोपविषयस्यैवारोप्यस्मारकत्वं तत्रारोपे सारूप्यग्रहो हेतुः स्यादिति मनसि कृत्य परिशेषमुखेनाह - तम इति । विध्यादीत्यादिपदान्नीलरूपाश्रयत्वादिसंग्रहः । रात्रिन्दिवेति । न च तमसो गतिमत्वात्तद्विभागोपपत्तिः चाक्षुषत्वेन तस्य महत्त्वान्नित्यमहतश्च गतिविरो- धातू । सामान्यादित्रयात्मकत्वमनित्यत्वेनैव निरस्तमिति कर्मत्वं निराकरोति - न चलनेति । द्रव्यत्वं निराकरोति - अचलनेति । आरब्धतायामस्पर्शत्वव्याघातः, अनारब्धत्वे च तत्र नित्यत्वापत्तेः । तत्र चोक्त्तएव दोष इत्यर्थः । गुणत्वं निराकरोति-न निर्गुण मिति । 'अद्रव्यद्रव्यगं'

न्यायलीलावती प्रकाशविवृतिः

स्मर्यमाणारोपत्वे वा रूपवत्त्वमेव तदाश्रयसाधर्म्यामित्याक्षेपतुरभिसन्धिः । रात्रिन्दिवेतीति । रात्रौ दिवा च यः प्रतीत्यप्रतीतिरूपो विभागः स न स्यादिति मूलार्थः । चाक्षुषत्वेनेति । चाक्षुषद्रव्यत्वेनेत्यर्थः । यद्वा तस्येत्यस्य गतिमत इत्यर्थः । एवं च चाक्षुषत्वे सति गतिमत्त्वा( दि १) तिहेतुर्लभ्यते । यथाश्रुतस्य घटस्पर्शादौ व्यभिचारादाह -


  1. विध्यात्मकतयेति कण्ठाभरणधृतः पाठः ।