सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
न्यायलीलावती


पवादिकमन्यथात्वमिति चेत्, न, शाब्देऽपि [] तथापत्तिरिति लौकिकवाक्यानामप्रामाण्यं न स्यात् । ननु च कारणत्वं वा विषयत्वं तद्गोचरव्यवहारजनकत्वं वा तत्प्रतिबद्धव्यवहारजनकत्वं वा ।


न्यायलीलावतीकण्ठाभरणम्

 अन्यथा त्वमिति । विसंवादिव्यवहार जनकत्वमित्यर्थः । तथा च स्वरसतो मम पक्षे नानाश्वास इति भावः । लौकिकं वाक्यं पौरुषेयत्वेन भ्रमाद्यधीनमपीति शङ्कया न प्रथमं प्रमां जनयति किन्त्वातोक्तत्वग्रहाव शङ्कात्यये पश्चात् प्रमापकं तथा चाप्तोकत्वग्रहादनुमानस्यैव सम्भूतसामग्रीकत्वात् प्रमाजनकत्वस्थितौ तदनुवादकत्वमित्यपि तव सिद्धान्तो भज्येत । यतः शब्दानां स्वाभाविकप्रमाजनकत्वमिति लौकिकेनापि वाक्येन प्रथमं प्रमैव जन्येते त्याह - शब्देऽपीति । अप्रामाण्यं न स्यादिति । वैदिकवाक्यतुल्यता स्यादित्यर्थः । पुरोवर्त्तिरजततादात्म्यस्यापि अत्यन्तासतो विषयत्वमसम्भावितमतः क्वाऽन्यथाख्याति रिति शङ्कते- ननु चेति । अतीतादेरित्युपलक्षणं चक्षुरादरपि विष-

न्यायलीलावतीप्रकाशः

दाह - शन्देऽपीति । लौकिकवाक्यानां सर्वेषामिति शेषः । प्रथमं शङ्काकलङ्कगुठितत्वात् (?) पश्चादप्यनुवादित्वाल्लोके शब्दाप्रामाण्यं त्वदभिमतं यदा च बाधकाभावाधीनं प्रामाण्यं तदा लौकिकवाक्यानामपि केषाश्चित् बाघकाभावात् प्रामाण्यं स्यादेवेत्यर्थः । नन्वेतावतापि बलृप्तकारणाभावात् शुक्तौ रजतसाक्षात्कारो न स्यादिति न समाहितम् । अत्र वदन्ति । विशेषणज्ञानं विशे येन्द्रियसन्निकर्षस्तयोरसंसर्गाग्रहः प्रत्यभिज्ञानसत्यप्रत्यक्षसाधारणो विशिष्टप्रत्यक्षहेतुत्वनियमात संयोगस्य विशेष्यभानसामग्यून्तर्गतत्वेनान्यथासिद्धतया विशेषणभानसामग्यन्त राकल्पनात् तुल्यमयथार्थविषयेऽपीत्य-

न्याय लीलावती प्रकाश विवृतिः

रजतसंयोगत्वेन कारणताग्रहः स्यादित्यत आह - संयोगस्येति । विशेषणज्ञानविशेष्यभानसामग्रीभ्यामेव तन्निर्वाहे नोकरूपेण कारणता, अन्यथासिद्धेरिति भावः । ननु तरसाक्षात्कारे तदिन्द्रिय सन्निकर्ष-


  1. शब्देऽपीति प्रकाश-कण्ठाभरणधृत्तः पाठः ।