सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३३
म्यायलीलावतीकण्ठाभरण - सविवृतिप्रकाशोद्भासिता


हारशीलानां विज्ञानानां दोषवशात् तदजननेऽपि विसंवादिव्यवहारप्रसवक्षमत्वं तथैव तदपि स्यात् । अयथार्थत्वे ज्ञानस्य ज्ञानमात्रेऽनाश्वासप्रसङ्गः [] स्यादिति चेल, न, विसंवादिव्यवहारजनकत्वेऽपि तुल्यत्वात् । यत्र विशेषदर्शनं संशयहेतुदोषानुपलम्भो वा न तत्र व्यवहारविसंवादशङ्केति चेत्, तुल्यमयथार्थविषयत्वेऽपि । स्वाभाविकं ज्ञानस्य संवादिव्यवहारजनकत्वमा-


न्यायलीलावतीकण्ठाभरणम्

ष्य्सन्निकर्षः तदुभयासंसर्गाग्रहश्च विशिष्टज्ञानकारणं न तु विशेव्यासन्निकर्षोऽपीति न कारणाभाव इति भावः । दोषान्तरमन्यथाख्यातावाशङ्कते - अयथार्थत्व इति । अनाश्वासः स्यादिति । तथा च निष्कम्पप्रवृत्तिः क्कापि न स्यादिति भावः । यथार्थस्यापि ज्ञानस्य विसंवादिव्यवहारजनकत्वं चेत्तदा तुल्य एवानाश्वास इत्याह - नेति । प्रथममनाश्वासेऽपि प्रामाण्यग्रहादाश्वासः स्यात् प्रामाण्यग्रहोयायः सम एवेति भावः। स्वतः प्रामाण्यं तु अदूर एव प्रतिक्षिप्तमिति हृदयम् ।

न्यायलीलावतीप्रकाशः

त्वात्तथा स्वभाव इत्यर्थः । अनाश्वासेति । तथा च प्रवृत्तिमात्रस्य प्रामाण्यसन्देहादप्युपपत्तौ बहुवित्तस्य (व्य ?) यायाससाध्ये कर्मणि प्रवृत्तिर्न स्यादित्यर्थः । अयथार्थत्वेऽपि तुल्यमिति स्फुटतयोपेक्ष्यान्य-

न्यायलीलावती प्रकाशविवृतिः

नमित्येव पूर्वदृष्टान्तेन साधितं तत्र च बाध इति सन्धानकल्पनेनाभ्रमदृष्टान्तेनापि सङ्गतिः, तथापि पूर्वदृष्टान्तः स्वमतेनैव भाष्यविरोधादसङ्गत इति तात्पर्यम् । तथा स्वभाव इति । स्वभावश्च संवादिव्यवहारजनकत्वं दोष साहित्येन भ्रमजनकत्वमित्येवंरूपः । तथा च तद्वत्स्वभावतो ज्ञानहेतूनां प्रमाजनकत्वं दोषसाहित्येन च भ्रमजनकत्वं स्यादित्यर्थः । तद्विशेषतद्विशेषस्येति (?) । विशेष्यसश्निकर्षत्वेनैव सामान्यकारणतेति रजतस्य विशेषणतास्थले रजतसंयोगस्याकारणत्वात्, विशेष्यीभूतशुक्तिसंयोगस्यैव तथात्वादिति भावः । नन्वनुभवव्यतिरेकाभ्यां


  1. अनाश्वासः स्यादिति कण्ठामरणसम्मतः पाठः ।