नाद्यः । अतीतादेरविषयतापत्तेः । न द्वितीयः | रजतप्राप्तिवद्रजताभावप्राप्तिव्यवहारस्यापि जननाद्रजताभावविषयताप्रसङ्गात् ।
तृतीये तु पुरोवर्तिरजततादात्म्यविषयत्वमसम्भावितमेव, तन्नियतव्यवहारजननाभावादिति चेत्, न, यत्र यस्येच्छाप्रयत्नजन-
न्यायलीलावतीकण्ठाभरणम्
यतापत्तेरित्यपि द्रष्टव्यम्। रजतप्राप्तिवदिति । यथा सत्यरजते रजतप्राप्तिस्तथा रजतभ्रमे रजताभावप्राप्तिरपीति तस्यापि विषयत्वप्रसङ्गात्तत्र प्रवृत्तिरेव न स्यादिति भावः । असम्भावितमिति । तत्तादात्म्येऽस्यासम्भावितत्वेन तन्नियत व्यवहाराभावादित्यथः । यत्र यस्येति ।
न्यायलीलावतीप्रकाशः
त्राक्षिपति - ननु चेति । रजतप्राप्तिवदिति । सत्यज्ञाने यथा रजतस्य प्राप्तिरिति रजतं विषयस्तथा विसंवादिज्ञाने रजताभावस्थापि प्राप्तेः सोऽपि विषयः स्यादिति ततः प्रवृत्तिर्न स्पादित्यर्थः । तत्रियतेति । शुक्तिरजततादात्म्यस्यात्यन्ता सत्त्वेनाव्यापकतया तव्घाण्यव्यवहाराजनकवादित्यर्थः । यत्रेति । ननु यत्रति विषय सप्तमीत्वात् येन वा निरूपणमित्यत्र च तद्विषयेण तन्निरूपणादात्माश्रयः, उपेक्षाज्ञानाव्याप्तिश्च
न्यायलीलावतीप्रकाशविवृतिः
त्वेन लाघवात्कारणतेति रजतविषयसाक्षात्कारे रजतसंयोगो हेतुः "यत्सामान्ययोरिति” न्यायादिति चेत्, न, गुरुमते रजतानुमितेऽपि रजतसाक्षात्कारत्वेन व्यभिचारात् । न च रजतावच्छेदेन यत्साक्षात्काररूपं तत्र रजतसंयोगो हेतुर्न त्वेवमनुमितिरिति वाच्यम्, तर्हि तवैव रीत्या साक्षात्कारा साक्षात्काररूपात्मकमेकं ज्ञानमन्यथाख्यातिरस्तु, कारणबाघस्य निरस्तत्वात् । अनुभूयमानरजतारोपस्थले च क्षुतरान ( सुतरां न ? ) कारणबाध इति तदाप्यन्यथा ख्यातिरप्रत्यूहा। न च विशेष्यवृत्तिविशेषणज्ञानादिकं तव यत्प्रमाप्रयोजकं तदेव लाघवेन ज्ञानसामान्यहेतुरिति कारणबाघ इति वाच्यम्, ज्ञानवैचित्र्यासिद्धौ तस्य कारणत्वे मानाभावात् । तत्सिद्धौ चोपजीव्यविरोधेन तस्य सामान्याकारणत्वादित्यन्यत्र विस्तरः ।
प्रवृर्त्तिन स्यादिति। रजतार्थिप्रवृत्तिर्न स्यादिति । नन्देवं घटज्ञानस्यापि