भवे भस्मकेन रसहेतुशक्तिप्रतिवन्धे प्रभूतदाह्यदहनशक्तेरनभिभवात् । तदेतदपेशलम् । यथा दाहस्य वेत्रवीजविनाशकत्वं रूपान्तरजनकत्वं च तथा दोषाणामप्ययथार्थज्ञानजनकत्वमन्यविज्ञानप्रतिबन्धकत्वं [१] च स्यात् । दहनस्य प्रचुरदाहशक्तिः किं स्वरूपमुततीन्द्रियं रूपमथ सहकारिभेदः । तत्र न तावदाद्यः । तथा सति रसार्जनदाह सामर्थ्य योर भेदेनाभिभाव्याभिभावकभावाभावात् । न द्वितीयः । असिद्धेः । न तृतीयः । भस्मकाभावस्य रसजननसहकारित्वेन तदभावस्य प्रचुरदाहजनकत्वमिति दोषकारणतापत्तेः । यथा वाऽविसंवादिव्यवहारोप-
न्यायलीलावतीकण्ठाभरणम्
मित्याह - नेति । 'दाहो' ऽग्निसंयोगः। 'अन्यविज्ञप्तिः प्रमा। अतीन्द्रियमिति । मीमांसकाभिमता शक्तिरित्यर्थ: । जठरानलस्वरूपमेव रसार्जनसामर्थ्य तदा नाभिभाव्याभिभावकभाव इत्याह - तथा सतीति । स्वरूप सतीत्यर्थः । तदभावस्य भस्मकस्य यथा अस्माकं भ्रमज्ञाने दोषकारणत्वं तथा तव विपरीतव्यवहारइत्याह--- यथा वेति । विशेषणज्ञानं विशे
न्यायलीलावतीप्रकाशः
कदलीकाण्डजनकत्वादित्यर्थः । यथेति । 'दाहो'ऽग्निसंयोगः करणव्युत्पत्तरेकस्यैवाग्निसंयोगस्य पूर्वद्रव्यनाशकत्वं द्रव्यान्तरवर्त्तिरूपजनकत्वं चेति मतमाश्रित्यैतदुक्तम् । तथा सतीति । दाहसामर्थ्यवद्र सार्जनशक्केरपि दहनस्वरूपात्मकत्वादित्यर्थः । 'असिद्धेः' शकेः पदार्थान्तरस्य निरासादित्यर्थः । भस्मकाभावस्येति । अभावस्य भावत्वादित्यर्थः । ननु भ्रमो न विशिष्टज्ञानं किन्त्वसंरुर्गाग्रहः सप्रतियोगिनि बुद्धिस्थेऽधिकरणस्वरूपं तच्चाजन्यमेवेति न दोष इत्यत आह --- यथा वेति । धियामौत्सर्गिकस्य प्रमात्वस्य बाधकैकायोग्य-
न्यायलीलावतीप्रकाश विवृतिः
व्याचष्टे -दाह इति । “पुनरन्यस्मादग्निसंयोगात्पाकजा जायन्त" [२] इति भाध्यविरोधमाशङ्कयाह - एकस्येति । ननु भ्रम इति । यद्यपि भ्रमो विशिष्टज्ञा-