ननु चैवमन्यथाख्यातिरनुपपन्ना, कारणाभावात् । दोषाः कारणमिति चेत्, न, दोपाणां यथार्थज्ञानजननप्रतिबन्धसा मर्थ्यात् [१] विपरीतज्ञाने त्वसामर्थ्यात् । न खलु दुष्टं कुटजवीजं न्यग्रोधधानायै [२] कल्प्यते । दवदहनद ग्धवेत्रबजिस्य कदलीकाण्ड जनकत्ववद् भस्मकदुष्टजठरानलस्य बहुतरानपाक हेतुत्ववच्च दोषाणां विपर्ययहेतुतेति चेत्, न, दग्धस्यावेत्रबीजत्वात् । अन्यस्यैव विजातीयफलहेतुत्वात् । प्रभूतदाह्यदहनशक्तेरनलेषु स्वाभाविक्या अन्नरसजननशक्त्या अभि-
न्यायलीलावतीकण्ठाभरणम्
ननु विशिष्टज्ञाने विशेषणविशेष्येन्द्रिय सन्निकर्षः कारणं प्रकृते च विशेषणस्य रजतत्वस्या सशिकर्षाद्विशिष्टभानं न स्यादित्याह-- नन्विति । असन्निकृष्टमपि दोषवशाद् भासत इत्याह - दोषा इति । प्रमा णप्रतिबन्धकत्वं दोषत्वमित्यभिप्रेत्याह – नेति । दुष्टमिति । भज्जैनापादितदोषवदित्यर्थः । 'न्यग्रो (ध?) धाना' वटाङ्कुरः । दोषाणां विपरीतकार्थ्यजनकत्वमुदाहरति - दवेति । 'दवो'वनम् । 'भस्मको' रोगविशेषः । दाहात्तद्वेत्रवीजं विनष्टमेव तद्भस्मनस्तु कदलीजनकत्वं रसार्ज्जनशक्त्या जीवनादृष्टाधीनतया स्वाभाविकी जठरानलस्य दाहकत्वशक्तिर्या प्रतिवद्धाऽऽसीत् सैव भस्मकेन दाहशक्तिर्न जन्यते किन्तु रसार्जनश क्त्तेः प्रतिबन्ध एव क्रियते इति विपरीतकार्य्यजनो (ननेन ?) तदुदाहरण
न्यायलीलावतीप्रकाशः
प्रत्यक्षान्यथाख्यातिमाक्षिपति - ननु चेति । रजतरजतत्वसाक्षात्कारे इन्द्रियेण रजत संयोगतत्संयुक्त समवाययोः कारणत्वादित्यर्थ: । 'धाना' अङ्कुरः । अन्यस्यैवेति । वेत्रवीजभस्मन एव
न्यायलीलावतीप्रकाशविवृतिः
ऽपि न स्यादिति भावः । अनुमित्यादौ लिङ्गा संसर्गाग्रहादे: कारणस्य सम्भवाद्विशेषपरतामाह - प्रत्यक्षान्यथाख्यातिमिति । दाहो यदि रूपपरावृत्तियदि वा भस्मीभाव उभयथापि नोक्तं विनाशकत्वमित्यन्यथा