सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३०
न्यायलीलावती


दाध्यासित [] इति निषेधाच्च । शब्दानुमानार्थापत्तिमामाण्याक्षेपकं प्रत्यनुमानोपन्यासानवकाशाच्च । यथा []दीपैकत्वव्यवहारो भेदाग्रहात् । तथा च प्रत्यभिज्ञानमात्रमुच्छिद्येत । तत्तुल्ययुक्तिकत्वात् । यत्राभेदोऽस्ति तत्रावभासते न सर्वत्रेति चेत्, न, यत्राभेदोऽस्ति तत्र व्यवाहियते न सर्वत्रेति तुल्यम् । अविद्यमानोऽप्य भेदस्तदभावाग्रहाद्द्व्यवहियत इति चेत्तुल्यम् । असन्नप्यभेदो भेदाग्रहावभासते ।


न्यायलीलावतीकण्ठाभरणम्

आभास इत्यादि प्रकारान्तरेणापि निव्याचष्टे --- शब्देति । शब्दविधया चेदिदं गमकं तदा शब्देत्युक्तम् । यद्यपि प्रत्यक्षप्रामाण्येऽपि प्रतिवन्दिविधया सिद्धान्तिनो विमतिरेव तथापि परेण तन्नोपन्यस्तमिति तथोक्तम् । किञ्च प्रत्यभिज्ञानमपि पूर्वापराभेदग्राहकं न स्यात् तथावादिनः क स्थैर्थ्यसिद्धिरपीत्याह-- यथा चेति । यथा तत्र एकत्वासंसर्गाग्रहस्तथा प्रमाप्रत्यभिज्ञानेऽपि स्यादित्यर्थः | विषयसत्वं प्रमाप्रयोजकमिति शङ्कते — यत्रेति । भानव्यवहारयोस्तुल्यत्वमाह - नेति । तथा च तयवहाराप्तथाख्यातिरेवेति भावः । भेदाग्रहादविद्यमानव्यवहारं स्यान्न तु मानं येनान्यथाख्यातिः स्यादिति शङ्कते – अविद्यमान इति । तद्भेदाग्रहादविद्यमानभानमपि स्यादित्याह -तुल्यमिति । तुल्यतामेव दर्शयति — असन्नपीति ।

न्यायलीलावतीप्रकाशः

कथं तेनैव विरोधापादानमित्याह - शब्दानुमानेति । क्वचित्प्रत्यक्ष संसर्गज्ञानोच्छेदमध्याह – यथेति । सर्वत्रेति । न विसंवादिज्ञानेऽपीत्यर्थः । तथा च न प्रत्यभिज्ञानमात्रोच्छेद इत्यर्थः ।

न्यायलीलावती प्रकाशविवृतिः

रजतव्यवहारोऽपि दृष्टान्तो भवत्येव तथापि विशेषणतालक्षणसंसर्गस्तत्र भासत इति मतेन पूर्वारुच्यैव मूलकृता प्रकारान्तरमुकमिति तदनुरूपोभयसिद्धभ्रमजन्यव्यवहार एव प्रकाशकृता दृष्टान्त उक्त इति भावः । यत्राभेदोऽस्तीति मूलम् । तथा च शुतौ रजताभेदव्यवहारो-


  1. विवादाश्रय इ० ।
  2. यथा चेति कण्ठाभरणसम्मतः पाठ ।