पृष्ठम्:न्यायलीलावती.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


तिरेकेऽपि [१]सर्वत्र ध्वानोत्पत्तिप्राप्तिरिति चेन्न, [२]अन्या-


न्यायलीलावतीकण्ठाभरणम्

रेव स वक्तव्य इति । गगनं व्याप्य शब्दमुत्पादयेदित्याह - अतिरेक इति। भवेदेवं यदि संयोगो व्याप्यवृत्तिः स्यात्तदेव तु नास्तीत्याह – नेति ।

न्यायलीलावतीप्रकाशः

विभागजशब्दस्य च दृष्टान्तत्वात् । तथोत्पाद: संयुक्तधीकुर्वद्रूप इत्यर्थः । अतिरेकेऽपीति । विभागध्वंसभिन्न संयोगस्वीकारेऽपीत्यर्थः । यद्यपि गगनस्यैकत्वान्न तत्र सर्वशब्दार्थान्वयस्तस्यानेका शेषवाचि त्वात् । अवच्छेदकानां च ततो भिन्नत्वात् । तथापि यदि शब्दो व्याप्यवृत्तिः स्यात् तदा देशान्तरीय भैर्यभिघातेऽत्रस्थैः शब्दः श्रूयेत । न च विभुगगनात्मकश्रोत्रस्य सर्वसाधारण्याव्याप्यवृत्तित्वेऽप्पयं दोषः । इह शब्दो नेह शब्द इत्यनुभवाच्छन्दस्याव्याप्यवृत्तित्वे सिद्धे यस्य समवायवृत्याधारता कर्णसंयोगेनावछिद्यते स गृह्यते ।

न्यायलीलावतीप्रकाशविवृतिः

न्तरम् । न च त्रयोविंशतिभिन्नो व्याप्यवृत्तिगुणो बाधित इति न तेनार्थान्तरमिति वाच्यम्, तर्हि तद्भिन्नो गगनमात्रसमवेतोऽपि गुणो बाधित इति तुल्यम् । तथापि ताद्र्यसिद्ध्यर्थं विशेषणमिति ध्येयम् । विभागजेति । हेतुश्चात्राद्यशब्दत्वमिति भावः । अवच्छेदकानी(नां?)चेति । यद्यपि भिन्नत्वेऽपि तावदवच्छेदेन शब्दोत्पत्तिस्स्यादित्यापादानं युज्यत एव तथापि तत्रेष्टापत्तिरेवेति तात्पर्यम् । अत एव परसिद्धं व्याप्यवृ त्तित्वमापादकीकृत्यापादयति--तथापीति । अन्यथा मूले व्याप्यवृत्तित्वस्थापाद्यतया परसिद्धत्वेता (नापा?) दकानुपपत्तेः । एवं चानेन तर्क्केणेष्टापत्तिनिरासे मूलोक्तव्याप्यवृत्तित्वापादनं सम्यक् सम्पद्यत इति भावः । न चेति । न चैवं पूर्वपक्षः सिद्धान्तोपरि युक्त इति वाच्यम्, नेदमनिष्टापादनं ममैव, किन्तु तवापीति सकलसिद्धतया तर्क्कमास एवायमित्यभिसन्धानेन सत्यपि सिद्धान्तसङ्गतत्वेऽत्रैव तस्य करणात् ।

 अन्ये तु अतिरेकेऽपीति कृत्वा पूर्वपक्षसिद्धान्ततयोद्धृतत्वात् सिद्धान्त एवायमाक्षेपः । पुनः सिद्धान्तफक्विकालिखनं च शेषपूरणार्थमित्याहुः ।


  1. ०तिरिक्तेऽपि ।
  2. इति चेत् ।