पृष्ठम्:न्यायलीलावती.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
न्यायलीलावती

प्यवृत्तित्वात् ।

 किं पुनरव्याप्यवृत्तित्वम् । एकस्यैकदा भावाभावौ, विचारासहत्वादिदमयुक्तम् । तथा हि न तावत्तत्र संयोगस्य प्रागभावप्रध्वंसाभावौ । तयोः प्रतिपक्षसमानकालत्वाभावात् । नात्यन्ताभावः । तेन सादेश्यव्याघातात् । नान्योन्याभावः । व्याप्यवृत्तीनामपि स्वाश्रये तादात्म्याभाववलेनाव्याप्यवृत्तिताप्रसङ्गात् । यथा एकत्रैव बीजे कारणत्वं तदत्यन्ताभावश्च कार्यभेदावच्छेदात् तथाऽत्राप्यवच्छेदभेदमादा याविरोध इति चेन्न [१], अवच्छेदो [हि] यद्यनर्थान्तरमर्थान्तरं वा व्यापकं तदा तदवच्छिन्न एव विधिनिषेधाविति स एव विरोधः । अर्थान्तरमव्या-


न्यायलीलावतीकण्ठाभरणम्

 विप्रतिपन्नः पृच्छति – किमिति । एकस्येति । स्वाभावसामानाधिकरण्यमित्यर्थः । विप्रतिपत्तिवीजमुद्घाटयति — तथा हीति । प्रागभावप्रध्वंसाविति । प्रतियोगिसमानदेशकालाविति शेषः । एवमन्यत्रापि । तेनेति । अत्यन्ताभावस्य प्रतियोगिवैयधिकरण्यनियमादित्यर्थः । व्याप्यवृत्तीनामपीति । एतादृशस्य व्याप्यवृत्तितारूपादीनामपीत्यर्थः । अवच्छेदेति । अवयविनि तदभावादन्यत्र तु दिगादय एवेत्यर्थः । स एवेति । य एव अ-

न्यायलीलावतीप्रकाशः

यस्य तु तदत्यन्ताभावेन स न गृह्यते कर्णसंयोगस्य समवायवृत्त्या शब्दाधारतायां परिचायकत्वात् । अव्याप्यवृत्तित्वादिति । शब्दासमवायिकारणसंयोगस्याव्याप्यवृत्तित्वात् तदनुविधानाच्छन्दस्याप्यव्याव्यवृत्तित्वादित्यर्थः ।

 प्रतितिपक्षेति । प्रतियोग्यसमानकालत्वादित्यर्थः । तेनेति । तेनात्यन्ताभावेन सह प्रतियोगिनः समानदेशत्वव्याघातादित्यर्थः । अवच्छेदेति । नित्ये तत्तत्प्रदेशा अवच्छेदका अवयविनि त्ववयवा

न्यायलीलावतीप्रकाशविवृतिः

 अयं दोष इति । विरोध इत्यर्थः । तदत्यन्ताभावेनेति । यस्य तु समवायवृत्त्यो संयोग ( गो ?) नावच्छिद्यते स न गृह्यत इत्यर्थः । यथाश्रुते संयो


  1. इति चेत्, अंव० ।