पृष्ठम्:न्यायलीलावती.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
न्यायलीलावती


अन्यथाऽसमवायाख्यभावाभाव एव समवायोऽपि स्यात् । गगनपवनसंसर्गजध्वानस्य च द्वितीयशब्दवत् भावासमवायिकारणत्वानुमानात् । तथोत्पादस्तु (१) न संयोगः क्षणभङ्गनिषेधाद-


न्यायलीलावतीकण्ठाभरणम्

क्ष्लिष्टप्रत्ययजनकत्वाधीनश्चाभावादौ स्वरूपसम्बन्धव्यपदेशः । अन्यथेति । भावत्वेन प्रतीयमानत्वस्याभावत्वस्वीकार इत्यर्थः । गगनेति । शब्द विभागाजन्यः शब्दो गुणासमवायिकारणकः शब्दत्वात् मतवत् । स च गुणः पारिशेष्यात् संयोग एव स्यात् । न च गगनमात्रवृत्तिरेव स्यादिति वाच्यम्, सङ्खयापरिमाणपृथक्त्वानां सदा शब्दजन्मापत्तिदोषादजनकत्व स्थितौ शब्दाजन्यत्येन पक्षविशेषणादन्यस्य च सामान्यगुणस्य विशेषगुणस्य वा गगनेऽसम्भवात् । अनेकवृत्तित्वेन वा साध्यं विशेष्यम् । विभागजन्यः शब्दो दृष्टान्तीकर्त्तव्य इत्यव्याहुः । बौद्धमतमाशङ्कय निराकरोति--तथेति । तथोत्पन्न इति । संयुक्तधीरेच कुर्वद्रूप इत्यर्थः । ननु संयोगोऽस्त्वतिरिक्तस्तथापि व्याप्यवृत्ति-

न्यायलीलावतीप्रकाशः

तेनाभावेन स्वरूपसम्बन्धात्मकेन न व्यभिचारः । गगनपवनेति । भावेति स्वरूपनिर्वचनम् । अभावोऽपि असमवायिकारणमितिमतनिराकरणसूचनार्थ वा । शब्दविभागाजन्यस्त्रयोविंशतिगुणासमवायिकारणकत्वशून्योऽयं गुणासमवायिकारणक इति साध्यम् । अतो नार्थान्तरम् । न च ग गनमात्रसमवेतगुणासमवायिकारणकत्वेनार्थान्तरम्, अनेकवृत्तित्वेन (२) विशेषणात् । असमवायिकारण-

न्यायलीलावतीप्रकाशविवृतिः

शेष्य इत्यर्थः । सम्बन्धिद्वयभिन्न सम्बन्धत्वमेव हेतुः । कुण्डवदरमित्यादौ च संयोगस्य तथात्वान्नासिद्धिरित्यन्ये । संसर्गस्य संयोगरूपतया तेन रूपेण पक्षतायां विशेषणासिद्धिरिति पक्षतावच्छेदकमाह - शब्द विभागेति । एवमपि गुणान्तरेणार्थान्तरमित्यरुच्या प्रकारान्तरमाह - त्रयोविंशतीति । कर्मणाऽर्थान्तरवारणाय साध्ये गुणपद्म । अनेकवृत्तित्वेनापीति । यद्यप्येवमपि ब्याप्यवृत्तितादृशगुणेनार्था-


(१) [१] (२) [२]

  1. ० थोत्पादकस्तु ।
  2. अनेकवृत्तित्वेनापीति विवृतिसम्मतः पाठः ।