पृष्ठम्:न्यायलीलावती.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७७
न्यायलीलावतीकण्ठाभरण-- सविवृतिप्रकाशोद्भासिता


पि[१] विभाग इति चेन्न, तद्धेतूनां कर्मविभागादीनामभावात् । अजोऽसाविति चेन्न, ध्वंसानुपपत्तेः । ततः [२] संयोगप्रागभाव एवासौ तदभावस्तु संयोग इति स्थितम् । संयोगः सन् इत्यवाधितबुद्धिवेद्यत्वाच [ सम्बन्धबुद्धिवेद्यत्वात् [३] ] समवायवत् ।


न्यायलीलावतीकण्ठाभरणम्

कर्म्मविभागादीनामित्यत्रादिपदात् विभागध्वंसकारणसंग्रहः । त्य क्तमर्थ्यादः शङ्कते - अज इति । तर्हि विभागध्वंसः संयोग इति व्याहतामित्याह --– ध्वंसेति । अत इति । त्वयाऽव्यगत्या संयोगप्रागभाव एव विभागो वाच्यस्तदभावश्च संयोग एवेत्यर्थः । सन्निति । सत्तायोगीत्यर्थः । न च दृष्टान्तविरोधः, तत्रापि सत्तासम्बन्धस्य स्वरूपस्य विद्यमानत्वात् । अन्यथा तस्य भावत्वमपि न स्यात् । सम्बन्धबुद्धिविषयत्वादिति । सम्बन्धत्वप्रकारकप्रमाविषयत्वादित्यर्थः । न च स्वरूपसम्बन्धेन व्यभिचारः, तस्यातिरिक्तस्याभावात् । उप-

न्यायलीलावतीप्रकाशः

जातस्तत्र मिथः कर्मण्यपि संयोगो न जायेतेत्यर्थ: [४] । जात इति । अत स्तद्ध्वंसोऽपि तत्रोत्पन्न इत्यर्थः । कर्मविभागादीनामित्यादि पदाद्विभागध्वंस हेतुसङ्ग्रहः । अन्यस्य तत्संग्राह्यस्याभावात् । तत इति । विभागध्वंसात्मक संयोगवादिनापि संयोगप्रागभाव एव विभागो वा च्यः । तथा चेष्टापत्तिरित्युक्तमित्यर्थः । सन्निति । भाव इत्यर्थः, न तु सत्तायोगित्वं समवायस्य दृष्टान्तत्वविरोधात् । चकारौ हेतुद्वयनैरपेक्ष्यसूचकौ । द्वितीयो हेतुः स्वरूपसम्बन्धान्यत्वेन विशेषणीयः ।

न्यायलीलावती प्रकाशविवृतिः

त्वमिति दिक् । सिद्धान्तस्थादिपदानुरोधादाह - तद्वंसोऽपीति । आदिपदादिति । एवं च तद्धेतूनामिति मुले तत्पदं विभागतद्ध्वंसपरमन्यथाऽनन्वयापत्तेरिति भावः । यत्र मुले चकारद्वयमस्ति तत्समञ्जसयन्नाह --चकाराविति । स्वरूपेति । यद्यपि स्वरूप सम्बन्धस्य केवलान्वयितया तदन्यत्वमप्रसिद्धि तथापि सम्बन्धिद्वयभिन्नत्वेन हेतुर्वि-


  1. तस्तदापि वि० ।
  2. अत इति कण्ठाभरण सम्मतः पाठः ।
  3. ० द्धिविषयत्वान सम० ।
  4. अपि: कारणासंयोग समुच्चयार्थ: । 'न जायेत' न प्रतीयेत ।