पृष्ठम्:न्यायलीलावती.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७६
न्यायलीलावती


वाभावत्वे भावत्वव्यवस्थिते । नेतरः । गुणगुणिनोर्विषयविषयिणोरपि संयोगितापत्तेः । विभागध्वंसः संयोग इति चेन्न, संयुज्य विभक्तेऽपि तत्प्रत्ययप्रसङ्गात् । तमः प्रत्ययवद् यावदुत्पन्न प्रतियोगिध्वंसावलम्बनत्वात् संयोगमतीतेः, असिद्ध एव संयोग इति चेन्न, सहोत्पन्नयोरविभक्त योरेव [१] संयोगात् । जातस्तत्रा-

न्यायलीलावतीकण्ठाभरणम्

त्वादिति सम्बध्यते । इष्टत्वमेवोपप्रादयति - अभावेति । संयोगप्रागभावो विभागस्तदभावश्च संयोगः स्यादित्यर्थः । गुणगुणिनोरिति । विभागाभावस्य तत्रापि विद्यमानत्वादित्यर्थ: । ननु विभागात्यन्ताभावसत्त्वेऽपि ध्वंसो नास्ति विभागध्वंसस्य द्रव्यमात्रवृत्तित्वादित्या ह—विभागेति । संयुज्येति । विभागध्वंसात्मकसंयोगानन्तरं पुनर्विभागेऽपि पूर्व्वसंयोगरूपध्वंसविषयक संयोगप्रतीत्यापत्तरित्यर्थः । यावदिति । विभागासमानकालीन विभागध्वंसस्य विभागत्वावच्छिन्नप्रतियोगिकविभागध्वंसस्य वा संयुक्तप्रतीत्यालम्बनत्वात् । अतो नैकविभागवति यावदर्थासम्भवाद्दोषः । सहेति । अविभक्तयोरपि संयुक्त प्रतीतिदर्शनान्नैवमित्यर्थः । तत्रापीति । सहोत्पन्नयोरपीत्यर्थः ।

न्यायलीलावतीप्रकाशः

इत्यत्र हेतुः । इष्टत्वमुपपादयति - अभावाभावत्व इति । गुणगुणिनोरिति । विभागात्यन्ताभावस्य तत्रापि विद्यमानत्वात् । संयुक्तव्यवहारापत्तेरित्यर्थः । विभुद्रव्ययोर्हिमवद्विन्ध्ययोश्च संयुक्तप्रत्ययापत्तिश्चेत्यपि द्रष्टव्यम् । विभागध्वंस इति । अतो न गुण्यादिषु संयोगधीरित्यर्थः । संयुज्येति । विभागध्वंसात्मक संयोगानन्तरं पुनर्विभागेऽपि पूर्वविभागेध्वंसविषयक संयोगधीप्रसङ्गादित्यर्थः । यावदुत्पन्नेति । न च यत्रैकस्यैव विभागस्य ध्वंसस्तत्र यावदर्थाभावः । समानाधिकरणविभागासमानाकालीनविभागध्वंसस्य समानाधिकरणविभागसामान्यध्वंसस्य या विवक्षितत्वात् । सामान्याभावस्य यावद्विशेषाभावव्याप्यत्वात् । सहेति । विभागपूर्वकत्वात् तद्ध्वंसस्य सहोत्पन्नयोर्विभाग एव न


  1. संयुक्तयोराव्यपार्थिवपरमाण्वो:, आप्यपार्थिवपरमाण्वन्तरसंयोगाज्जातयोयेणुकयोः । एवं स्थूलयोरपीति | इति दीधितिः ।