पृष्ठम्:न्यायलीलावती.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
न्यायलीलावती


द्विपरत्ववन्दी [१] त्ववशिष्यते । सा तु परत्वापरत्वप्रक्रियायां निरसनीयेति । [इति] द्विपृथक्त्वम् ।


न्यायलीलावतीप्रकाशः

प्रत्यक्षमेव तत्र प्रमाणमित्यर्थः । अनुमानमध्याहु: । संख्यात्वमे कानेक वृत्तिवृत्ति गुणत्व साक्षाद्या व्यजातिसमानाधिकरणात्यन्ताभावप्रतियोगिगुणत्वसाक्षादूव्याप्यजातित्वात् रूपत्ववत् । विपक्षे बाधकं चोक्तमेव ।

 द्विपरत्वेति । द्वौ पराविति द्वित्वेन सहान्यूनानतिरिक्ततया परत्वस्यानुभवाद् द्विपरत्वमपि गुणः स्यादित्यर्थः । सा त्वितिं । भिन्नदेशस्थयोर्द्वौ पराविति प्रतीतेरेवाभावः । किन्त्वेतौ परपरतराविति । समानदेशस्थयोश्च तादृशी द्वित्वधीद्वित्व समानाधिकरणपरत्वादेवान्यथासिद्धा । न चैवं घटात्पटाच्च धटपटौ द्वौ पराविति प्रती-

न्यायलीलावती प्रकाश विवृतिः

पृथक्त्वविषयत्वे गौरवाल्लाघव सहकृतं द्विपृथक्त्वमेव विषयीकरोति । न च द्वौ रूपवन्ताविति प्रत्ययेन व्यासज्यवृत्तिरूपापत्तिरेवमिति वाच्यम्, तत्र समानाधिकरणरूपस्य रूपप्रतिवन्धकतयैकत्र एकदा रूपद्वयासम्भवेन बाधकसत्त्वात् । अत्र तु द्वित्वस्याभ्युपगमे बाधक भावात् द्विपृथक्त्वप्तिद्धिरिति वदन्ति । तदयुक्तम् । अत्रापि समानाधिकरण संख्यायाः संख्या प्रतिबन्ध कत्वात् । अप्रतिबन्धकत्वे वा रूपेऽपि तथात्वप्रसङ्गादिति ।

 संख्यात्वमिति । अत्र हेतुलाध्ययोः साक्षात्पदं भेदलाभाय । दृष्टान्ते सङ्ख्यात्वमादाय साध्यं पक्षे बाधसहकारेण पृथक्त्वत्वमादाय पर्यवसानम् । समानदेशस्थयोरिति । प्रकृते तु घटपट- योरपि परस्परावधिकं पृथक्त्वमस्तीति विशेष इति भावः । ननु समानाधिकरणकिञ्चिद्विभागासमानकालत्वमेक विभागध्वंसेऽपि विभागान्तरसमानकालीने यावद्विभागसमानकालत्वविवक्षायामुक्त्ताप्रसिद्धिरेव समानाधिकरण विभागत्वावच्छिनासमानकालत्व विवक्षायां तत्तदवच्छिन्नत्वं लाघवेन ध्वंस एव प्रतियोगिद्वारा विशेषणमस्त्वित्यरुच्या तथैव सिद्धान्तयति--- समानाधिकरणेति । उत्पन्न समा-


  1. वन्दिस्त्वव० ।