पृष्ठम्:न्यायलीलावती.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७३
त्यायलीलावतीकण्ठाभरण सविवृतिप्रकाशोद्भासिता


द्वावयं च द्वाविति प्रत्ययप्रसङ्गात् । न चैकपृथक्कमुभयाश्रितम् । एकपृथक्केयोरभेद आरोग्यत इति चेन्न, असति बाधके उभयाश्रित पृथक्त्वप्रतीतेर्भ्रान्तत्वानुपपत्तेः । न चेदेवं चित्रमध्येकं रूपं न स्यात् । नीलादीनां विजातीयानारम्भकत्वनियमे व्यापकैरव्यापकैर्वा नीलपीतादिनानारूपैरेव चित्ररूपप्रती तेरुपपत्ते : [१] । चित्रैक रूपानुभववलात् [२] तव्घवस्थितिरिति चेत्तुल्यं प्रकृतेऽपि ।


न्यायलीलावतीप्रकाशः

देव तादृशानुभव: स्यादित्यत आह -न चैकेति । तस्य द्वित्वेन स हान्यूनानतिरिक्तवृत्तित्वाभावादित्यर्थः । ननु द्वौ पृथगित्यनुभवस्य द्वित्वसामानाधिकरण्यं विषयो न तु द्वित्वान्यूनानतिरिक्तवृत्तित्वमित्येक पृथक्वेनन्यथासिद्धिः । अत्राहु: । द्वित्वसमानाधिकरणैकपृथक्त्वात्तादृशानुभवे घटात्पटाच्च घटौ द्वौ पृथगिति प्रतीतिः स्यात् । अथ पृथक्वाश्रयतावच्छेदकत्वेन द्वित्वं प्रतीयते । द्वित्वाश्र यतया च घटपटयोः प्रतीत्या कथं तस्यावधित्वं प्रतीयताम् । पृथक्काश्रयतावच्छेदकरूपविरहेणोपलभ्यमानस्यैवावधित्वादित्युच्यते । तन्न । आश्रयमात्रवृत्तेरेव धर्मस्याश्रयतावच्छेदकत्वाद् द्वित्वस्य चैकपृथक्वाश्रयमात्रवृत्तित्वाभावात् । अध्यापकैर्वैत्यभ्युपगमवादः । तुल्यमिति । पृथत्कमपि द्वित्वेन सहान्यूनानतिरिक्तवृत्त्यनुभूयत इति

न्यायलीलावतीप्रकाश विवृतिः

घटाच्च(तू?)पटाच्चेति । एकपृथक्त्वयोरन्योन्यावधित्वात् द्विपृथक्त्वस्य चातथात्वेन तथाप्रतीतिरिति भावः । आश्रयमात्रवृत्तेरिति । तथा चायमपि प्रकारो द्विपृथक्त्वाभ्युपगमपक्ष इति भावः । न चाश्रयावृत्तीतिधर्मेणोपस्थितस्यावधित्वमतो न घटाच्च (तू ?) पटाच्चेत्यादिप्रतीतिरिति वाच्यम्, घटत्वादिना ताहशेनाऽप्यु पस्थितेः । न चाश्रयावृत्तिमात्रेणोपस्थितस्यावधित्वमत्र त्वाश्रयवृत्तिना द्वित्वेनापि तदुपस्थितिरिति वाच्यम्, प्रमेयाद्धटात्पट: पृथगिति प्रत्ययानापत्तेरिति भावः ।

 केचित्तु द्वौं पृथगितिप्रतीतेः पृथक्त्वविषयता । सा च नाना-


  1. विचित्रपत्ययोपपचेः।
  2. विचित्रैकानुभ० ।