पृष्ठम्:न्यायलीलावती.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
न्यायलीलावती

पञ्चमीप्रसङ्गात् । पृथक्त्वं च रूपवत्सत्तासम्बन्धितया प्रतिभासते न च तमोवदेतत् स्यादिति वाच्यम्, तद्भावत्वे बाधकाभावात् [ इति पृथक्त्वम् । ]

 अथ द्विपृथत्के किं प्रमाणम् । अनुभव [एव] इति चेत्, तस्य द्विश्वसाहचर्यादेवोपपत्तेः । ततो नैतव्यवस्थेति [१] चेत् मैवम् । द्वित्वसामानाधिकरण्येन पृथक्त्वप्रतीतेः । द्वित्वं च न घव त्ववत् अयं घटोऽयं घट इत्येकैकसंसर्गितया भासते । अयं


न्यायलीलावतीप्रकाशः

चापादानमेव सम्बन्धित्वेन विवक्ष्यते तदा ग्रामस्यागमनवानयमि त्यत्र षष्ठीत्याविरोधात् । नाप्यघटः पट इत्यत्र समासेवावधि स्योक्तत्वान्न तदर्थिका पञ्चमीति वाच्यम्, घटस्यान्योन्याभाववा नयमित्यत्र पञ्चमीप्रसङ्गात् । अत एव वैधर्म्यमेव पृथत्कमित्यपा स्तम् । वैधर्म्यस्य सातिशयत्वात् पृथक्त्वस्य निरतिशयितत्वात् पृथत्कस्य च भावत्वे मानान्तरमाह - पृथक्त्वं चेति । तद्भावत्व इति पृथक्कभावत्व इत्यर्थः । तमसस्तु भावत्वे बाधकस्य वक्ष्यमाणत्वा दिति भावः ।

 अथेति । लोष्ट्राद्धटपटौ द्वौ पृथगिति प्रतीतिर्द्वित्वान्यूनानतिरि तवृत्तिगुणजन्येत्यत्र किं मानमित्यर्थः । तस्येति । द्विपृथक्त्वानुभवस्य द्वित्वसामानाधिकरण्यविषयत्वेनेत्यर्थः । द्वित्वसामानाधिकरण्येनेति । द्वौ पृथगितिप्रतीतेः पृथक्कस्य द्वित्वेना न्यूनानतिरिक्तव्यक्तिकत्वानु भवात् । यावति द्वित्वं परिसमाप्यते तावति द्विपृथक्कं गुणान्तरमित्यर्थः । ततोऽपि द्वित्वस्यैकैकशः द्विव्यक्तिवृत्तित्वेन तत्सिद्ध तीति द्वित्वस्यैकत्र समायभावमाह - द्वित्वं चेति । तर्हि एकपृथक्वा-

न्यायलीलावतप्रिकाशविवृतिः

वधित्वमित्यभिप्रायः । प्रतियोगिज्ञानं विना कथमभावशानमित्यरुचिवीजं च कल्पयन्ति ।

 समासस्यावधित्वेऽनुशासनाभावादिति दोषे सत्येवाह-- घटस्यान्योन्येति । घटाद्न्योन्याभाववानयमित्यपि स्यादित्यर्थः


  1. नैव तद्व्यवस्थेति चेत् । नैतद् व्यवस्थितिरिति चेत् । ति० केचित् । मैवम् ।