पृष्ठम्:न्यायलीलावती.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५२
न्यायलीलावती


त्वजातिरपि गणितप्रयोगसाध्यैव । परिमाणगुरुत्वयोस्तु धर्माधर्मबदुभयवृत्तिजात्यभावात् । एकत्वं तु न स्वरूपाभेदमात्रम् । एकमेकमित्यननुगमापत्तेः । यादृश्येक[त्वं] संख्या समवैतीति चेन्न, जातेरपि विलयापत्तेः । सामग्रीभेद एव चासौ[१]


न्यायलीलावतीकण्ठाभरणम्

जातिरपीति । गणितशब्दप्रयोगः संख्यात्वजातिनिबन्धन एव वाच्योऽ न्यथाऽव्यवस्थापत्तरित्यर्थः । परिमाणगुणत्वयोरैकजात्यं यदापादितं तत्राह - परिमाणेति । परिमाणशब्दो गोशब्दवन्नानार्थो नैकजातिमपेक्षते अनुगतव्यञ्जकाभावादित्यर्थः । ननु तथापि घटादिस्वरूपभेदमात्रायलम्बन एकंत्वप्रत्ययोऽस्तु किं संख्यया तद्गतजात्या वेत्यत आह - एकत्वन्त्विति । नन्वेकत्वसंख्याश्रयत्वेनाभिमता एव व्यक्तय एका कारानुगमं करिष्यन्तीत्याह- यादृशीति । तर्हि यासु व्यक्तिषु गोत्वं समवेतं तासामेव गवाकारानुगतर्मात सामर्थ्यं किं गोत्वेनापीत्याह--नेति ननूभयत्र व्यक्तीनामेव कथं तथा सामान्य मङ्गीक्रियत [२] इत्यत आहसामग्रीति | गवादिसामग्रीवैलक्षण्याधीनो गोव्यवहारस्तदा स्यात्

न्यायलीलावतीप्रकाशः

तित्वेनैव सिद्धेर्गुणत्वसाधने धर्मिग्राहकमानविरोध इत्यर्थः । जातिरपीति । अनुगतगणितप्रतीतेरननुगतैकत्वा दिनोपपादयितुमशक्यत्वादनुगतं संख्यात्वम् । तच्च बाधकाभावाज्जातिरेवेत्यर्थः । परिमाणगुरुत्वयोरिति । एत॒दुभयमात्रवृत्तिजातिग्राहकं न प्रत्यक्षं गुरुत्वस्यातीन्द्रियत्वात् । नापि कार्यैकत्वं लिङ्गं तदभावात् । तदभावेऽपि जात्यभ्युपगमे धर्माधर्मयोरप्येकजाति: स्वीक्रिये तेत्यर्थः । एक (त्व ?) मिति । एकत्वस्य गुणत्वस्वीकारे तद्वृत्तिसंख्यात्वव्याप्यजात्याश्रयतयाऽनुगत प्रतीत्युपपत्तिरिति भावः । यादृशीति । याहाशि नियामकविशेषवति एकत्वसमवायस्तादृशमेवानुगतं स्वरूपमेकत्वमनुगतधीहेतुरित्यर्थः । जातेरपीति । तत्रापि व्यवस्थापकेनैवानुगतव्यवहारोपत्तेरित्यर्थः । सामग्रीभेद इति । असावेकत्वसंख्यासमवायप्रयोजकः सामग्रीविशेषजनितं


  1. भेद एवासौ वि० ।
  2. सामान्यं नामान्यं नाङ्गीक्रियते ।