पृष्ठम्:न्यायलीलावती.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


स्यातू । जातेः प्रत्येकं समाप्तत्वात् [१] । एवं व्यवस्थिते [गणनव्यवहारत्वाद] एक [त्व] व्यवहारोऽपि गुणानुबन्धी [२] द्वित्वादि व्यवहारवत् । सत्तावन्दीग्रहस्तु मानाभावादेव [३] निरस्तः । संख्या-


न्यायलीलावतीकण्ठाभरणम्

विनापि ज्ञायेत घटत्ववादित्यर्थः । प्रत्येक परिसमाप्तित्वादिति । एकव्यक्तिसन्निकर्षे व्यत्तयन्तरसन्निकर्षानपेक्षप्रत्ययविषयत्वादित्यर्थः । एवमिति । द्वित्वादीनामसामान्यत्वे व्यवस्थिते तद्दृष्टान्तेन एकत्वस्यापि असासान्यत्वं साधनीयमित्यर्थः । तदेवाह - एकत्वव्यवहार इतिं । एको घट इति शाब्दी व्यवहारो गुणविषयकः गणितव्यवहारत्वात् द्वौ घटाविति घटव्यबहारवदित्यर्थः । सत्तापि तर्हि गुणः स्यादिति यदापादितं तत्राह—सत्तेति । सत्ताया गुणत्वे प्रमाणं नास्ति द्वित्वादीनान्तु गुणत्वे प्रमाणमुक्तं वक्ष्यते चेत्यर्थः । संख्यात्वं न जातिरिति यदुक्तं तत्राह---

न्यायलीलावतीप्रकाशः

त्वात् । बहुत्वस्य च सामान्यरूपत्वे तदनुपपत्तः । जातीरति । अव्यासज्यवृत्त्याघारताप्रतियोगित्वादित्यर्थः । एवमिति । ननु गणनात्वं न संख्यात्वं जातिः, तदसिद्धेः, गणनशब्दवाच्यत्वं चातिप्रसक्तमिति | मैवम् । एकत्वान्यगुणाविषयिकैकप्रतीतिर्गुणालम्बना एकप्रती तित्वात् एको रूपवानिति विपक्षितत्वात् । सत्तावन्दीति । सत्ताया जा-

न्यायलीलावतीप्रकाशविवृतिः

ज्जातौ चादृष्टत्वात् । एवञ्चैकैकश इति मूलस्य व्यासज्यवृत्तित्वादित्यर्थो यथाश्रुतस्तु न सम्यगिति द्रष्टव्यम् । बहुत्वस्येति । द्वित्वादेरित्यर्थः । इदं च द्वित्वेऽपि सामान्यरूपताबाधकम् द्वित्वस्यापि व्घणुकपरिमाणासमवायिकारणत्वादिति स्मर्त्तव्यम् । एकत्वान्येति । न चाप्रयोजकत्वं परिशेषादेकत्वस्य द्वित्वाद्यसमवायिकारणतया गुणत्वप्रमितेरिति भावः । सत्ताया इति । सत्सदिनुगतमत्या द्रव्यत्वादीनि


  1. प्रत्येक परिसमाप्तित्वादिति कण्ठाभरणधृतः पाठः ।
  2. ०न्धी गणनव्यवहारत्वाद् द्रि० ।
  3. सत्तावग्रहम्तु द्वित्वाभावादेव नि० | सत्तानुबन्धी ग्रहस्तु माना० ।