पृष्ठम्:न्यायलीलावती.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
न्यायलीलावती

न्यायलीलावतीप्रकाशः

च्यते तदपि न घटत्वादिसामान्यस्यापि घटान्यद्रव्याविषयकप्रतीत्यविषयत्वात् घटादेः स्वावयवाविषयसाक्षात्काराविषयत्वात् । तर्कोऽपि शिथिलमूलः, घटत्वसामान्यस्यापि शरीरेन्द्रिय सन्निकर्षेन्द्रियार्थावयव सन्निकर्षव्यङ्गयत्वात् । न च घटाद्वित्वं यदि घटसामान्यं स्यात् घटतदवयवान्यद्रव्याविषयक साक्षात्कारविषयः स्यादिति वाच्यम्, विपर्ययापर्यवसानात् । तथा हि घटद्वित्वं घटसामान्यं न घटतवयवान्यद्रव्याविषयकसाक्षात्कारविषयत्वात् इति घटतदवयववृत्तिद्वित्वे वैशेषिकारणां स्वतोऽसिद्धम् । अत्राहुः --द्वित्वातिरिक्तगुणाविषयो द्वित्वप्रत्ययः गुणविषयो द्वित्वप्रत्ययत्वात् द्वौ रूपवन्ता विति प्रत्ययवदिति । न चाप्रयोजकत्वम् । एकत्वाद्यपेक्षया द्वित्वादावतिशयस्य द्वित्वादिसामान्येनानुपपत्तेः । एवं बहुत्वसंख्या गुण एब अल्पसंख्यावयवारब्धापेक्षया तदधिकवृत्तिबहुत्वारक्धे परिमाणातिशयानुपपत्तेः तस्यासमवायिकारणबहुत्वातिशयप्रयोज्य-

न्यायलीलावतीप्रकाशविवृतिः

गर्मता | प्रतीतिश्चात्र लौकिकसाक्षात्काररूपा विवक्षितेति न गुणत्वसामान्यलक्षणमादायासिद्धिरिति भावः । घटत्वादीति । तथा च तत्रैव हेतुर्व्यभिचारीति भावः । शरोरेन्द्रियेति । इदमुपलक्षणम्, अवयवेन्द्रि यसंयोगस्यापि संयुक्त समवेत समवा वायघटकतया घटत्वव्यञ्जकत्वादित्यपि द्रष्टव्यम् । न च संयुक्तसमवेतसमवायस्य घटत्वग्राहकत्वे मानाभावः । रूपत्वकर्मत्वादिसाक्षात्कारे तस्य कारणतायां लाघवेन द्रव्यसमवेत समवेत्तसाक्षात्कारत्वस्यैव कार्यतावच्छेदकत्वादिति भावः । अत्र च द्विर्तायस्वाश्रयविषयकप्रतीत्यविषयत्वमनुमाने हेतुः । तर्के चापरस्वाश्रय सन्निकर्षासहित सामग्रीवेद्यत्वमापाद्यमतो नोक्क दूषणद्वयावकाशः । न च तत्राप्युक्तक्रमेण द्रव्यत्वे पृथिवीत्वे च व्यभिचार इति वाच्यम्, त्रसरेणुनिष्ठतया तत्प्रतीतेरपरतदाश्रयविष यत्वा [१] नियमादिति प्रकारे सत्येव प्रकारान्तरमाह - द्वित्वातिरिक्तेति । एकत्वादीति । यद्यप्यत्रोत्कर्षोऽधिक देशवृत्तित्वं न तु जातिरूपस्तच्च सत्तादाविव न जातित्वबाधकम्, तथापि व्यासज्यवृत्तित्वानुपपत्तिरेव विपक्षवाधिका । संयोगविभागादौ गुणे व्यासज्यवृत्तित्वस्य दृष्टत्वा-


  1. विषयत्वनि० ।