पृष्ठम्:न्यायलीलावती.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता

वत् । अन्यथा घट इतिवदेकत्रैवायं द्वावयं च द्वाविति प्रतीतिः


न्यायलीलावतीकण्ठाभरणम्

त्वं न घटवृत्तिजातिः घटेन्द्रिय सन्निकर्षे सत्यपि स्वविशिष्टप्रत्ययाविषयत्वात् संयोगवत् । यद्वा घटपटद्वित्वं न घटवृत्तिजातिः पटेन्द्रिय सन्निकर्ष विना अज्ञायमानत्वात् नियमतः पटेन्द्रिय सन्निकर्षाधीनज्ञानत्वात् घटपटसंयोगवदिति मानार्थः । अत्र विपक्षबाधकमाह - अन्यथेति । यदि घटपटद्वित्वं घटजातिः स्यात् पटेन्द्रिय सन्निकर्ष-

न्यायलीलावतीप्रकाशः

इति । 'स्वोपरक्तः' स्वविशिष्टः । व्यवहियतेऽनेनेनेति व्यवहारो ज्ञानम्। तेन प्रतीतिः स्यादित्यग्रिमग्रन्थेनाविरोधः । द्वित्वादीनां स्वोपरक्तव्यवहाराजनकत्वं स्वरूपासिद्धमित्यत उक्तं एकैकश इति । प्रत्येकं स्वविशिष्टज्ञानाजनकत्वादित्यर्थः । ननु स्वशब्दो यदि वस्तुसामान्यपरस्तर्ह्यसिद्धि, अथ द्वित्वपरस्तदा घटत्वादिनाऽनैकान्तिकम् । अथैतद्वटाद्वित्वं नैतद्धटसामान्यं एतद्धटान्यद्रव्याविषयप्रतीत्याविषयत्वात् संयोगवत् । न चाप्रयोजकत्वम् यद्येतद्धट द्वित्वमेतद् घटलामान्यं स्यादेतद्घटम। त्रोन्द्रिय सन्निकर्षवेद्यं स्यादिति विपक्षे बाधकादित्यु-

न्यायलीलावतीप्रकाश विवृतिः

व्याप्यकार्यद्रव्यवृत्तिजातीनामिति तदर्थः, तदा नेदं दूषणम् । न चैवं घटपटादिद्वित्वे आपादकाभावः । परमाणुघटो भयवृत्तित्वे आपादनेन समीहितसिद्धेरिति मिश्राः । प्रत्येक मिति । न चैवमसिद्धवाच ( र ?) कतया व्यर्थता अखण्डाभावत्वादिति भावः । असिद्धिरिति । द्वित्वविशिष्टप्रत्ययस्य रूपद्रव्यत्वविषयतानियमाद् द्वित्वस्य च तज्जनकत्वात् । रुपादीनां च प्रत्येक पर्याप्तत्वादिति भावः । अनैकान्तिकमिति । इदमुपलक्षणम्, द्वित्वस्य द्वित्वस्वभाव [१] स्वज्ञानेषु प्रत्येक विशिष्टप्रत्यय जनकत्वादलिद्धिरपि द्रष्टव्या | इदमपि दूषणं प्रथमपक्षे द्रष्टव्यम् । एतद्धति । द्वित्वसामान्यपक्षताया मेतद्घटवृत्तित्वाभावमादाय सांध्यपर्थ्यवसानादभिमतासिद्धिरित्येतद्धटेति । पटत्वे व्यभिचारो माभूदिति साध्ये एतद्धटेति । घटत्वे व्यभिचार इति हेतोरेतद्घटान्थेति । घटत्वविषयतावश्यकतामादाय स एव व्यभिचार इति नञ्द्वय-


  1. द्वित्वत्वस्वाभाषस्वज्ञा० ।