पृष्ठम्:न्यायलीलावती.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


विशेष: स्यात् । न चायं तत्र प्रत्ययः । तदननुसन्धानेऽपि जायमानत्वात् ।

 ननु तथापि द्वित्वादिकं [१] न सिद्धयति, एकत्व समुच्चय एव तद्व्यवहारोपपत्तेरिति चेन्न, विचारासहत्वात् । अयं हि समुच्चयमात्रे वा [२] व्यवहारः तद्विशेषे वा । नाद्यः । तस्यावैचित्र्ये द्वित्वादि [३] व्यवहार वैचित्र्यविरोधात् । न द्वितीप्यः, विकल्पानुपपत्तेः । स हि समुच्चेतव्य [स्य] भेदाद्वा तदुपाधि [४] भेदाद्वा । नाद्यः । एकतायाः सर्वत्र तुल्यत्वात् । न द्वितीयः । आरोपितस्य पारमार्थिकस्य वा द्वित्वादेरसम्भवात् । सैकं सैकै-

न्यायलीलावतीकण्ठाभरणम्

यदि सामग्री प्रत्यक्षा स्यादनुगता च स्यान्न चैवमित्यर्थः । एकत्वस्यव्य व्यक्तिसामग्रीमन्तरेणापि गगनादावभिव्यक्तेरिति भावः ।

 तथापीति । एकत्वस्य गुणत्वसिद्धावपीत्यर्थः । पकत्वसमुच्चयः समुदिताभ्यामेकत्वाभ्यां द्वित्वव्यवहारः समुदितैरेकत्वैरेव त्रित्वव्यवहार इत्यन्यथासिद्धिरित्यर्थः । अयं हीति । द्वित्वत्रित्वादिलक्षणो विलक्षणो व्यवहार इत्यर्थः । तस्येति । समुञ्चयमात्रस्याविशेषितस्ये- त्यर्थः । 'विकल्पानुपपत्तेः' 'विकल्पस्य' विविधकल्पस्यानुपपत्तेः । दृष्टत्वादित्यर्थो वा समुच्चेतव्यमेकत्वं तद्भेदाद्वा एकत्वगतः कश्चि द्धर्मविशेषस्तद्भेदाद्वेति विकल्पार्थः । आरोपितस्येति । एकत्वविशेषो द्वित्ववैशिष्ट्यं त्रित्ववैशिष्ट्यं च तच्च द्वित्वत्रित्वाद्यनभ्युपगमेऽनुपपन्नमित्यर्थः । सैकमिति | सैकमेकत्वं द्वित्वं सैकैकमेकत्वं त्रित्वम् । एवं

न्यायलीलावती प्रकाशः

स्वरूपमेकत्वं वाच्यम् । न चायमेकप्रत्ययस्तद्विषयः सामग्या अतीन्द्रियतया तद्विशेष प्रसूतत्वविशिष्टस्वरूपस्याप्रत्यक्षत्वादित्यर्थः । तस्यावैचित्र्य इति । वस्तुतो द्वित्वादिविलक्षण: समुच्चयोऽपि दुर्बच इति भावः । आरोपितस्येति । द्वे एकत्वे द्वित्वव्यवहारहेतू द्वित्वैकार्थसमवायिनी च उभयमपि द्वित्वसिद्धौ स्यान्न च तत्कचित् सिद्धमि-


  1. द्वित्वादिकं तथापि न० ।
  2. ०वा व्यवहारान्तरविशेषे ।
  3. द्वित्वादिवैचित्र्यविरोधात्
  4. उपायभे० ।