पृष्ठम्:न्यायलीलावती.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


हार [१] दुपपत्तेः । विपक्षादव्यांवृत्तेश्च । एकत्वद्वित्वादीनां [२] सामान्यरूपत्वेनैवोपपत्तेः । न च परापरभावानुपपत्तिः । अन्युनानतिरिक्तव्यक्तिकत्वात् । न च [भेदे] मानाभावः । विचित्रबुद्धिवेद्यत्वात् । न च सदा द्वित्वावगतिः । विशिष्टबुद्धि-


न्यायलीलावतीकण्ठाभरणम्

भेदसाधकत्वेन शङ्कितानां हेतूनां विरुद्धत्वमाह - विपक्षेति । इतरभेदे साध्ये सामान्यस्यापि विपक्षत्वात् । तदेव स्फुटयति — एकत्वेति । एकत्वद्वित्वादीनां परापरभावानुपपद्यं न जातिरूपत्वमित्याह --न चेति । कृतकत्वानित्यत्वयोरिव समानव्यक्तिकतयैव परापरभावोपपत्तिरित्याह - अन्यूनेति । तर्हि घटत्वकलसत्ववदेकमेव एकत्वादि स्यादि त्याइ --न च मानति । भेद इति शेषः । बिलक्षणबुद्धिवेद्यत्वादेव एकत्वद्वित्वादीनां भेद इत्याह --विचित्रेति । ननु द्वित्वं यदि जातिः स्यादेकस्यामपि व्यक्तौ बुध्येत गोत्ववादित्याशङ्कयाह---- न चेति । यद्वा ननु यदि द्वित्वादिकं सामान्यं स्यादपेक्षाबुद्धिव्यङ्गं न स्यादित्यत आहन चेति । यद्वा यदि द्वित्वादिकं सामान्यं स्यादिन्द्रियापातमात्रवेद्यं-

न्यायलीलावता प्रकाशः

रुद्धत्वमाह - विपक्षादिति । विपक्षात्सामान्यात् द्वित्वादीनामव्यावृत्ते रित्यर्थः । तदुपपादयति - एकत्वादीनामिति । तेनैकमिदमे कामदामित्यनुगतरप्युपपद्यते । न च संख्यागतसामान्येन परम्परासम्बन्धात्तदुपपत्तिः साक्षात्सम्बन्धे बाघकाभावादिति भावः । न चेति । एकत्वद्वित्वादीनां परस्परमिति शेषः । भेदे मानाभावो ह्यन्यूनानतिरिक्तवृत्तिजातौ बाधकमतस्तदेव दूषयति - न चेति । ननु बुद्धिवादीनां जातिरूपतायामिन्द्रियापातमात्रेणैकत्ववत् द्वित्वाद्यव्यवगभ्येतेत्याशङ्कय निराकरोति —न चेति । विशिष्टबुद्धिरपक्षाबुद्धिविशेषः । ननु संस्थानानाभिव्यङ्कयकार्यद्रव्यवृत्तिजातीनां समवायिकारणवृत्तित्वनिय

न्यायलीलावतीप्रकाशविवृतिः

रुद्धत्वमिति । अव्यावृत्तेरभेदादित्यर्थः । तथा च सामान्यगत्वेन पूर्वहेतूनां व्यभिचार इति भावः । संस्थानेति । घटत्वात्मत्व रूपत्वेषु व्य-


  1. व्यवहृतिय० ।
  2. एकत्वादीनार्मिति प्रकाशसम्मतः पाठः ।