पृष्ठम्:न्यायलीलावती.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
न्यायलीलावती


र्वदोषात् । संख्यामात्रत्वे तस्यैवासिद्धेः । संख्याजातीयं तदिति चेन्न, जातेरप्यसिद्धेः । गणितशब्दप्रयोगात्तत्सिद्धिरिति चेन्न, हस्ततुलादिपरिमितदीर्घादिपरिमाणगुरुत्वयोः परिमितव्यव-


न्यायलीलावतीकण्ठाभरणम्

ऽन्याश्रय इत्याह – संख्येति । गग (ण?) नासाधारणकारणत्वं संख्या जातीयत्वमेवोक्तं तञ्च सर्वसंख्यासाधारणमतो न पूर्व्वदोष इत्याह - संख्याजातीयेति । संख्या जातीयत्वं हि संख्यात्वजातियोगित्वं यदि तत्राह - जातेरपीति । पूर्वभेदकापेक्षया अपिशब्दः । इदं गणितमिदं गणितमित्यनुगतप्रत्ययः प्रयोगश्च जात्यधीन इति तत् सिद्धिरित्याह- गणितेति । गणित प्रयोगो जातिनिंबन्धनः साधारणप्रयोगत्त्वात् गवादिप्रयोगवदित्यत्रानैकान्तिकत्वमाह - हस्तेति । हस्तादिपरिमितदीर्घादिपरिमाणतुल्यपरिमितगुरुत्वयोरित्यन्वयोऽत्र विवक्षितः । तथा च साधारणप्रयोगस्याप्यस्य नैक जातिनिबन्धनत्वमित्यनेकान्तः । संख्याया इतर-

न्यायलीलावतीप्रकाशः

संख्यामात्रत्वं इति । ज्ञानेऽपि विषय एव विशेषकः, न च संख्यामात्रं किंञ्चिदनुगत मस्तीत्यर्थः । ननु संख्यात्वं जातिस्तथा स्यादित्याह—संख्याजातीय मिति । संख्येत्यनुगतव्यवहारात्तदप्यसिद्धमित्याह --- जातेरिति । नन्बेकादौ संख्यातमित्यनुगतव्यवहारात तत् स्यादित्याह--गणितेति । परिमाण गुरुत्वसाधारणैकजाति विना परिमितव्यवहारवत् संख्यातव्यवहारः स्यादित्यत आह - हस्ततुलेति । यथासंख्य मन्वयात् हस्तपरिमितदीर्घादिपरिमाणे तुलापरिमितगुरुत्वे चेत्यर्थः पूर्वेषां सर्वेषां वि

न्यायलीलावती प्रकाशविवृतिः

न्नमेव द्वित्वमितिमतमिदानीमप्रकृतमेवातः प्रकृतं नित्यत्वमेव खण्डितम् ।

 मिश्रास्तु उत्पत्तावन्वयव्यतिरकयोरभिव्यक्तौ संचा(सा?) रे घटोत्पत्तिरपि न सिघ्घेत् । न च तत्र नाशप्रत्ययानुरोधादुत्पत्तिसिद्धिः । एकघटापसास्णानन्तरं द्वौ नष्टाविति प्रतीतेरत्रापि द्वित्वध्वंसविषयायाः संत्त्वात् । विशेष्यवति विशिष्टध्वंसे प्रतीते र्विशेषणध्वंसविषयत्वादिति दूषणं व्यङ्गयत्वपक्षे वदन्ति । पूर्वेषामिति । गणनासाधारणकारणत्वादीनामित्यर्थः । व्यभिचरितो व्यतिरेकी विरुद्ध इत्याशयवानाह - वि-