पृष्ठम्:न्यायलीलावती.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


तस्य समुच्चितस्य [१]स्वरूपासिद्धेः । विपरीतस्य भागासिद्धेः । गणनासाधारणकारणत्वादिति चेन्न, एकद्वित्र्यादिज्ञानविषयत्वे पू-


न्यायलीलावतीकण्ठाभरणम्

त्यर्थः । इदं संख्यातमिति ज्ञानं गग (ण?) नाविषयतया च तदसाधारणकारणत्वात् संख्या इतरेभ्यो भिद्यत इत्यत आह --गणनेति । पुर्वदेोषादिति । समुदितज्ञानजनकत्वे स्वरूपासिद्धेः प्रत्येकज्ञानजनकत्वविवक्षायां भागासिद्धेरित्यर्थः । संख्यातत्वेन ज्ञानं विवक्षित मिति यदि तदाऽन्यो

न्यायलीलावतीप्रकाशः

सुखवत् । कार्यत्वेन विशेषणान्न ज्ञानप्रागभावादिना व्यभिचारः । न चाप्रयोजकत्वम्, अपेक्षाबुद्धेर्द्वित्वादिव्यञ्जकत्वे द्वित्वादिसंयोगावभागानामन्यूनानतिरिक्तदेशानां समानोन्द्रियग्राह्याणां प्रतिनियतव्यञ्ज. कव्यङ्ग्यत्वानुपपत्तेः । किञ्चैवं नित्यमनेकसमवेतमिति सामान्यलक्षणयोगात् सामान्यरूपतैव स्यात् तत्र च बाधकं वक्ष्यति । तस्येति । आदिशब्दवाच्यैकप्रकारानिरुक्तेरे कादित्वस्यैकस्याभावान्मिलितैकादिव्यवहारहेतुत्वे तस्य प्रत्येकमभावात् स्वरूपासिद्धिः, एकैकव्यव हारहेतुत्वे च भागासिद्धिरित्यर्थः । ननु संख्याज्ञानं प्रति विषयत्वेनासाधारणकारणत्वं भेदकं स्यादित्याह-- गणनेति । गणना ह्येकत्वा द्यवच्छिन्नत्वेन ज्ञानं तत्र च समुच्चितासमुच्चितत्वपक्षयोः पूर्वोक्त्तदोष इत्याह --- एकेति । ननु संख्याज्ञानमात्रं विवक्षितमित्यत आह ---

न्यायलीलावतीप्रकाशविवृतिः

 कार्यत्वेनेति । समवेतत्वेनेत्यर्थः । न चेति । तथा चासिद्धिरपि नेतिभावः । अपेक्षाबुद्धेरिति । अपेक्षाबुद्धेर्व्यञ्जकत्वे द्वित्वादीनां प्रसक्तस्य प्रतिनियतव्यञ्जक व्यङ्गयत्वस्यानुपपत्तेः प्रमाणबाधादित्यर्थः । ननु संयोगे गृह्यमाणे द्वित्वग्रहनियमात्प्रतिनियतव्यञ्जकव्यङ्गयत्वाभावोऽस्त्येवेति चेत्, न, अपेक्षाबुद्धे: स्वभावत्वेन संयोगग्रहेऽपि द्वित्वाग्रहात् । नन्वन्यूनानतिरिक्तदेशत्वमवच्छेदक मादायापि वाच्यमन्यथोक्तनियमस्य नानापुरुषकर्मा ( र्णा ? ) वच्छिन्नशब्दयोरेव व्यभिचारात् । तथा च नोक दोष इत्यरुचेराह - किञ्चेति । कारणप्रक्रमोत्प


  1. समुदितस्य