पृष्ठम्:न्यायलीलावती.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

कत्वादित्यत्र एकत्वादिपरार्द्धपर्य्यन्तव्यवहारहेतुत्वं नैकस्या अपि संख्याया इति स्वरूपासिद्धिः । प्रत्येकव्यवहारहेतुत्वं च भागासिद्धमि-

न्यायलीलावतीप्रकाशः

त्वाद्यपेक्षाबुद्धिजन्य कार्यत्वे सति नियमेनैकप्रतिपत्तृवेद्यत्वात्

न्याय लीलावतीप्रकाशविवृतिः

मित्येव साध्यम् । अपेक्षेति । पक्षधर्मताबललभ्यसाध्यनिर्वचनमत एव सुखविशेषे न व्यभिचारः । यद्यध्येवं जन्यत्वमात्रमेव साध्यमुचितं तथापि जन्यत्वेऽपि बुद्धिव्यङ्ग्यत्वमस्त्विति शङ्कानिरासाय बुद्धिग्रहणम् । प्रथमाभिप्रायपक्षे तु तज्जातीयत्वं साध्यमतो नोक्तव्यभिचारः। कार्यत्वे सतीति । समवेतत्वे सतीत्यर्थः । तेन नान्यतरासिद्धिः । एबं गोत्वादावेव व्यभिचारवारणाय नियमेनेति । एकमात्रलौकिकप्रत्यक्षविषयत्वादित्यर्थः । तेनानुमानादिना नानापुरुषवेद्यतया नासिद्धिः । अत्र सत्यन्तमात्मनि सुखादिप्रागभावे च व्यभिचारवारणाय । तावन्मात्रं च जाती व्यभिचारीत्युत्तरदलम् न चापेक्षाबुद्धिजन्यत्वसाध्यपक्षे ज्ञानादौ व्यभिचारः, समूहालम्बनत्वनियतकारणताप्रतियोगिककार्यताश्रयत्वस्य साध्यत्वादन्यथा गुणत्वव्याप्यहेत्वलाभादिति वाच्यम्, नियमेनेत्यस्यावश्यकतया इतरव्यवच्छेदेन चेत्यर्थ एकमात्र पुरुषलौकिक साक्षात्कारविषयताव्याप्यजातिमत्त्वस्य हेतौ [१]लाभात । तादृशीच जाति: पक्षे शरीरजन्यतावच्छेदिका द्वित्व त्वादिव्याच्या घटत्वादिवदभ्युपेयेति नासिद्धिः । अन्यथा द्वित्वस्य लौकिकसाक्षात्काराविषये ईश्वरापेक्षाबुद्धिजन्यद्वित्वे ससत्त्वादसिद्ध्यापत्तेः । न च लौकिकेत्याद्येव समीचीनं शरीरविशेषवृत्तिचैत्रत्वादिजातिमादाय व्यभिचारात् । न च. गर्भोत्पन्नकांमशरीरे तन्मात्र साक्षात्कारविषये तथापि व्यभिचार इति वाच्यम्, पुरुषान्तरीय साक्षात्कारायोग्यत्वस्य मात्रपदेन लाभात् । सत्यन्तं चात्मन्येव सुखसमचायिकारणतावच्छेदकजातिमादाय व्यभिचारवारणाय । प्रागभावादिनेति चातद्गुणसंविज्ञानबहुव्रीहिः । हेतुश्चायं स्वमतेन । परेण द्वित्वस्यानेकवेद्यताभ्युपगमात् । कर्मसमूहरूपनृत्यदर्शनजन्यजातीयसुखमादाय अणुमात्रस्य चात्र दृष्टान्तत्वमिति दिक् ।


  1. इतोर्ला० ।