पृष्ठम्:न्यायलीलावती.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


संख्या तावन्नैकादि [१] व्यवहारहेतुत्वेन भिद्यते ।


न्यायलीलावतीकण्ठाभरणम्

वच्छिन्न एवेति नियम इति भावः ।

इति महामहोपाध्याय मिश्रश्रीभवनाथात्मजमहामहोपाध्यायसन्मित्र-

श्रीशङ्करकृतौ लीलावतीरहस्ये द्रव्यपदार्थः समाप्तः ।


 द्रव्यपदार्थनिरूपणानन्तरमवसरप्राप्तं गुणनिरूपणम् । तत्र गुणवं पूर्वमेव साधितं रूपादीनां चतुर्णां विप्रतिपत्तेरभावात्तदुल्लंङ्घय सख्यां निरूपयति-संख्येति । संख्या इतरेभ्यो भिद्यते एकयादिव्यवहारजन-

न्यायलीलावतीप्रकाशः

चेति । विभुमनःपक्ष इति शेषः ॥

इति श्रीलीलावतीप्रकाशे द्रव्यपदार्थः ।


 गुणत्वस्य प्रागेव साधनाद् गुणेषु रूपादिचतुर्णी सुगमत्वेन तानुपेक्ष्य संख्यां विवेचयति — संख्या तावदिति । ननु संख्याया गुणत्वमसिद्धं वस्तुमात्र एवैकादि व्यवहारात् गौणमुख्यभावस्य च दुर्निरूपत्वात् द्वित्वादेश्वापेक्षा बुद्धिव्यङ्ग्यत्वात् । ततः पदार्थान्तरमेवेति केचित् । तन्न, द्वि-

न्यायलीलावतीप्रकाशविवृतिः

नास्ति तत्प्रत्यक्षस्य च कारणबाधेन भ्रान्तत्वादित्येव समाधानम् ।

इति महामहोपाध्यायश्रीभगीरथविरचितायां लीलावती-

प्रकाशिकायां द्रव्यपदार्थः सम्पूर्णः ।


 ननु द्वित्वादेरपेक्षाबुद्धिजन्यत्वेन सुखवद्गुणत्वम नुमेयमित्यत आह -द्वित्वादेक्ष्चेति । तथा च हेतुरेवासिद्ध इति भावः । पदार्थान्तरमिति । नित्यमिति शेषः । अत एव किञ्चैवं नित्यमित्यादिग्रन्थः सङ्गच्छते । द्वित्वादीति । अपेक्षावुद्धिः समूहालम्बनात्मकबुद्धिविशेषः । तथा च सिद्धेनानेन गुणत्वं साधनीयमिति भावः । यद्वा एतदनुमानेन नित्यबाधे गुणे तव्घवहारो गौण एव वाच्यस्तस्य जन्यधर्मानाश्रयत्वादिति किं पदार्थान्तरकल्पनयोते भावः । अत्र चरमाभिप्रायपक्षे बुद्धिजन्य-


  1. न्नैकवादिव्य ।