पृष्ठम्:न्यायलीलावती.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
न्यायलीलावती


व्यङ्गयत्वानुपपत्तेः । अत एव यौगपद्यप्रत्ययाभिमानः [१] । गोधाभुजगादौ तु वेगवत्खङ्गाभिघातेन नानादेहावयवाश्रितवेगवत्प्राण- पवनसंयोगादेव क्रियोत्पद्यते। अतिरिक्त त्वं अतिरिक्तमिति प्रकाशादिसम्मतः पाठ |च न सिद्ध्येत् । श्रोत्रवद्गनेनैव कृतार्थत्वादिति । आत्मान्तरेण वेत्युपरम्यते । (इति) मनः ॥

इति श्रीन्यायलीलावत्यां द्रव्यविचारः । [२]


न्यायलीलावतीकण्ठाभरणम्

चान्यतरकर्म्मज एवात्ममनसोः संयोग इति मनो मूर्त्तं तस्यावयवकल्पना च गौरवपराहतेत्यर्थः । तथा च पादे मे सुखं शिरसि वेदनोति यौगपद्यप्रत्ययो मनस आशुसञ्चारनिबन्धनो भ्रान्त इत्याह -- अत एवेति । गोधेति । तत्र नानाशरीरावच्छेदेन यदि चेष्टा भवेत्तदा मनसो वैभवं कल्प्येतापि न त्वेवं किन्तु वेगवत्खड्गाद्यभिघातात् प्राणे वेगोत्पत्तिवेंगवत्प्राण संयोगाच्च नानाभुजगादि शरीरावयवावच्छेदेन क्रियेत्यर्थः । किञ्च मनो यदि त्रिभुः स्यात्तदा तदन्तःकरणमष्टद्रव्यातिरिक्तं न सिद्ध्येत् गगनावच्छिन्नदेहावयवविशेषेणैव तदन्यथासिद्धेरित्याह — अतिरिक्तमिति । नन्वाकाशस्य शब्दग्राहकत्वात् कथं तेनान्यथासिद्धिः । तथा च सर्वविषयकमन्तःकरणमवश्यं कल्पनीयमत आह—आत्मान्तरेण वेति । सुखादीनां च नाणुमात्रदेशदेशता विभुकार्य्याणामसमवायिकारणावच्छिन्ने उत्पद्यत एवेति नियमो न तु तद-

न्यायलीलावतीप्रकाशः

ऽजः संयोग इत्यर्थः । तस्येति । समवायलक्षणाक्रान्तत्वेन संयोगत्वाभावादित्यर्थः । गोधेति । यद्यपीतरचेष्टावदस्या अपि प्रयत्नवदात्मसंयोगोऽसमवायिकारणं न तु प्राणसंयोगस्तथापि कायव्यूहवदनन्यगत्या मनोना (ना?) त्वेनैव तदुपपाद्यमिति सम्प्रदायविदः । अतिरिक्तं

न्यायलीलावतीप्रकाशविवृतिः

स्तरः । सम्प्रदायविद इति । वस्तुतस्तादृशभुजगादिक्रियायां चेष्टात्वमेव


  1. प्रत्ययोऽभिमानः ।
  2. इति न्यायलीलावग्त्यां द्रव्यपदार्थोपवर्णनम् ।