पृष्ठम्:न्यायलीलावती.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४१
न्यायलीलावतीकण्ठाभरण सविवृतिप्रकाशोन्द्भासिता


मनोयोगस्य च संयोगत्वेनानित्यत्वात् । अन्यथा विभागस्थापि नित्यतापत्तावपसिद्धान्तात् [१] । नित्यत्वे च संयोगस्यापि समवायत्वेन रूपादीनामपि संयोगित्वात् विभागित्वे [२] पृथगुपलम्भप्रसङ्गः । अयुतसिद्ध्या विशेष इति चेन्न, अजसंयोगव्याघातात् [३] । संयोगत्वेन विशेष इति चेन्न, तस्य नियामकं विना नियत[देश]-


न्यायलीलावतीकण्ठाभरणम्

त्राह — आत्मेति । अन्यथेति । संयोगो यदि नित्यः स्यादित्यर्थः । दोषान्तरमाह - नित्यत्वे चेति । नित्या प्राप्तिः समवाय इति तल्लक्षणादिति भावः । न चेदेवं तदा रूपादिसमवायोऽपि संयोगः स्यात् । तथा च रूपादीनां संयोगित्वेन विभागित्वापत्तौ द्रव्याद्रूपं पृथगुपलभ्येतेत्यर्थः । ननु रूपरूपिनोर्विद्यमानयोरसम्बन्धित्वं पृथगेव सत्त्वं पृथगाश्रयाक्ष्रयित्वं वा | युतसिद्धिर्नाम्ति । तथा च कथं पृथगुपलम्भः स्यादित्याह--- अयुतसिद्धयेति । यद्धा अयुतसिद्धयोर्नित्या प्राप्तिः समवायोऽन्यत्र तु संयोग इत्याह-अयुतसिद्धयेति । 'विशेषः' संयोग समवाययोरिति शेषः । असम्बद्धयोर्वर्त्तमानत्वं युतसिद्धिस्तदभावो ह्ययुतसिद्धिस्तथा चास्ममनसोरसम्बद्धयोर्विद्यमानत्वाभ्युपगमे कुतः संयोगोऽयमज इत्याह-नेति । ननु विभुनोरन्योऽन्यं समवायाभावे संयोग एव स्वकिर्त्तव्य इत्याह --- संयोगत्वेनांत । नित्यसंयोगे संयोगत्वं जातिरेव नाभिव्यञ्चकं विना सिध्येत्तथा च पुनरविशेष एव समवायेनेत्याह- -नेति । तथा

न्यायलीलावतीप्रकाशः

मात्मना संयुज्यते द्रव्यत्वादित्यजः संयोगः सिद्ध्येदित्यत आह --अन्यथेति । तत एवाजविभागसिद्धेस्तदैव तेन संयुज्यते विभज्यते चेति विरोध इत्यर्थः । नित्यत्वे चेति । नित्या प्राप्तिः समवाय इतिलक्षणाक्रान्तत्वादित्यर्थः । अयुतसिद्धयेति । रूपरूपवतोरसम्बद्धयोरसत्त्वमिति न पृथगुपलम्भ इत्यर्थः । अजेति । आकाशात्मनोरसम्बद्धयोरसत्त्वे कुतो

न्यायलीलावतीप्रकाशविवृतिः

वाच्य इति । आत्मविभुत्वस्य प्रामाणिकत्वादिति भावः । तत एवेति । नित्यद्रव्यत्वादित्यर्थोऽन्यथा घटादौ व्यभिचारापत्तेरित्यन्यत्र वि-


  1. ०सिद्धान्तता ।
  2. संयोगित्वे विभागित्वात् पृथ० ।
  3. ०गाभावात् ।