पृष्ठम्:न्यायलीलावती.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
न्यायलीलावती


सामग्रयाः फलानुमानस्य शक्तेश्चासिद्धि [१]प्रसङ्गात् । न च देशकालादयोऽप्युपाधयः । सर्वसहकारिविरहे मनसोऽध्यसिद्धेः । आत्म-


न्यायलीलावतीकण्ठाभरणम्

ल्येऽप्यदृष्टविलम्बात् कार्य्याविलम्बः, तदाऽन्त्यतन्तुसंयोगेऽपि पटो न जायेत सामग्रयां सत्यामपि कदाचिन्न कार्य्यं जायेतेति सामग्रथपि कार्य्यं व्यभिचरेदिति तथा कार्य्यं नानुमीयेतेत्यर्थः । करतलानलसंयोगे सत्यपि दाहाभावस्य कदाचिदद्दष्टाभावादेवोपपत्तौ शक्तिकल्पना न स्यादित्याह - शक्तेश्चेति । ननु देशकालोपाधीनां मध्ये क स्यचिद्विरहाज ज्ञानानुत्पत्तिरतो व्यासङ्गसुस्वापावुत्पत्स्येते इत्याशड्याह--- न चेति । न च देशकालादय उपाधयः यद्विलम्बात् कार्य्यविलम्ब: स्यादिति शेषः । सर्वसहकारीति । सर्वसहकारिविरहे शङ्कयमाने मनसोऽप्यसिद्धिरित्यर्थः । मनोव्यतिरेकप्रयुक्तः कार्य्यव्यतिरेको यदि भवेत्तदा मनसः सिद्धि: स्यात्तथा च मनसो व्यतिरेकोऽन्यथासिद्धो यावता सहकार्य्यन्तरव्यतिरेकादेव तदानीं कार्य्यानुत्पत्तिसम्भवादिति भावः । मनोवैभवादिना आत्ममनःसंयोगो नित्यो वक्तव्यस्त-

न्यायलीलावतीप्रकाशः

द्दष्टाद्दष्टमूहरूपतया यावद्द्द्समवधानेऽप्यद्दष्टाभावसम्भावनया सामग्रीतः कार्यानुमानं न स्यादित्यर्थः । शक्तेश्चेति । परं प्रति विरोधप्रदर्शनम् । दृष्टकारणसाकल्ये सत्यप्यदृष्टाभावादेव कार्याभावापपत्तेः कुतः शक्तिकल्पनामित्यर्थः । ननु ज्ञानोत्पत्ति प्रति देशकालादीनां प्रयोजकत्वादुपाधित्वं ततस्तदभावादेव सुषुप्त्याद्युपपत्तिरित्याशङ्कय निराकरोति---- न चेति । किञ्च मनोवैभवे अजः संयोग आत्ममनसोर्वाच्यस्तत्र च बाधकमस्तीत्याह——आत्ममन इति । तथा चान्य तरकर्मंज संयोगानुरोधान्मूर्त्तत्वं मनसो वाच्यमित्यर्थः । नन्वाकाश-

न्यायलीलावतीप्रकाशविवृतिः

दिति । परमाणुकर्मस्थल इत्यर्थः । सामग्रीत इति । दृष्टकारणसमुदायादित्यर्थः । मूलेऽपि सामग्रीपदं तत्परमेव | दृष्टादृष्टेत्यादि तु वस्तुतः सामग्रीनिरुक्तिः । ननु नैयायिकानां चेमनिष्टमत आह - परमिति । मनसो


  1. शकेच सिद्धिप्र० ।