पृष्ठम्:न्यायलीलावती.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


विच्छेदलक्षणयोर्विभुत्वे व्याकोपात् । दृष्टसाकल्येऽदृष्ट्वैगुण्य [१] स्याप्यसम्भवात् । अदृष्टाभावस्य दृष्टसाकल्पविरोधात् । अन्यथा


न्यायलीलावतीकण्ठाभरणम्

ऽदृष्टविलम्बादेव ज्ञानविलम्बः स्यादित्यत आह - दृष्टेति । अदृष्टस्य दृष्टोपहारप्रयोजकतया दृष्टसाकल्ये तद्विलम्बाकल्पनातू, न हि दृष्टसाकल्यमदृष्टविलम्बश्चेति सम्भवतीत्यर्थः । अन्यथेति । यदि दृष्टसाक-

न्यायलीलावतीप्रकाशः

 अथात्मनःसंयोगे विशेष: कार्योन्नेयः किञ्चिच्छन्द्रग्रहे हेतुस्त दन्यशब्दग्रहे प्रतिबन्धकश्चेति तत्र वैभवेऽपीन्द्रियमनः संयोगविशेषाध्यासोपपत्तेः । अत्राहुः । यद्यपि वुभुत्साप्रणिधाने शब्दमात्रग्रहे न सहकारिणी न वेतरग्रहप्रतिबन्धके तथापि मानाशब्दसमवायदशायां श्रोत्रं यः शब्दग्रहस्तत्र तयोस्तथाभावः, तथैव तयोरन्वयव्यतिरेकात् । न च वैभवेऽद्दष्टाभावात्कार्यव्यतिरेकः तदितरसाकल्ये तस्यापि सत्वादित्याह - द्दष्टसातत्य इति । एतच्च कार्यविशेषं ज्ञानमधिकृत्योक्तम् । क्कचित्कार्ये साकल्येऽष्टविलम्बात् विलम्बः । अन्यथेति । सामग्या इति पञ्चमी । सामग्रया

न्यामलीलावतीप्रकाशविवृति

द्धान्तिते उभयोपालम्भायैवेयं फक्किका । तत्र च रूपादीत्यणुत्ववादिनं प्रति वुभुत्साधीनत्यादि विभुत्ववादिनं प्रतीति द्रष्टव्यम् । अज्ञानं स्यादिति शेषः । तटस्थ एव तर्हि वैभवपक्षोऽपि सम्यगेवेत्यणुत्ववादिनं प्रत्याह --वैभवऽषोति । यद्यपि मनसो विभुत्वे श्रोत्रमनः संयोगे विशेषाभावः, तथापि तत्र शरीरमनःसंयोग कर्णशष्कुलीमनःसंयोगे वा विशेषः फलवत्कल्पनीय इति भावः । तथापीति त्वयापि तत्रानन्यगत्या तथैव स्वीकारादिति भावः । यद्यप्येवं चुभुत्साविशेषमादाय वैभवपक्षेऽपि व्यासङ्ग उपपादयितुं शक्यते तथापि सूचीसर्पादिवेधोत्कटविषयसभिकर्ते व्यासचारान्न तस्यापि नियामकत्वमिति मिश्राः । वस्तुतो लाघवात्संयोगत्वमेव द्रव्यजन्यतावच्छेदक मित्यज संयोगनिरासे आत्ममनः संयोगाभावादसमवायिकारणासावे सुखादेरुत्पचिर्न स्यादित्येव समीचीनं विभुत्वबाधकमिति दिकू कचि


  1. ०ष्टवैलक्ष्र्प्रषस्पः