पृष्ठम्:न्यायलीलावती.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
न्यायलीलावती

न्यायलीलावतीप्रकाशः

नियामकाभावात्तावद्विषय कैकज्ञानापत्तेः न च चाक्षुषत्वादिजाति सङ्करापत्तेर्नैकं ज्ञानं चित्ररूपवच्चाक्षुषादिविजातीयज्ञानोत्पत्त्यापत्तेः । ननु दीर्घशष्कुलीं भक्षयतः कथं पञ्च ज्ञानानि जायन्ते । न च तत्रापि क्रमः कल्प्यः, बाधकं विना यौगपद्यानुभवस्य प्रमात्वात् । व्यासङ्गो बाधक इति चेत् तर्हि मनोऽवयव्यस्तु तत्सङ्कोचविकासा भ्यां तदुभयोपपत्तेः । न, तत्र कारणाभावात् । न होकपञ्चबुभुत्सा तद्धेतुः, तस्या अहेतुत्वात् । हेतुत्वे वाऽस्तु विभु मनः अवयवितो विभुत्वस्य लघुत्वात् । नाऽप्यदृष्टं तत एव तदुत्पत्तौ मनसोऽसिद्धेः । अत एवाणुमनःपञ्चतमस्तु अवयवितो लघुत्वात् बुभुत्सावशात्तेषामेकपञ्चेन्द्रिय सम्बन्धवशा दुभयोपपत्तरित्यपास्तम् । पञ्चबुभुत्सया सर्वेषां पञ्चेन्द्रियसम्बन्धे व्यासङ्गानुपपत्तेः । तस्माद्यासङ्ग एव यौगपद्यप्रत्ययबाधकः । कथं तर्हि शकुलीभक्षणे गन्धरूपरसस्पर्शशब्दान् प्रत्येमीत्यनुव्यवसाय: क्रमिकज्ञानपञ्चतयेन युगपन्मनः सन्निकर्षाभावात् न क्रमिकानुव्यवसायाहितसंस्कारजनितपञ्चविषयस्मृ तावनुभवत्वारोपादुपपत्तेः । ननु मनसोऽणुत्वपक्षे कथं मन्दोऽपि वु(भु?) त्सितः शब्दो गृह्यते नान्यः । न च शब्दविशेषबुभुत्सैवेतरग्रहप्रतिबन्धिका बु(भु ?) त्सितशब्दग्रहमामग्थ्येव वा बलवतीति वाच्यम्, तथापि रूपादिसकलबुभुत्सया परस्परप्रतिबन्धादज्ञानस्य बुभुत्साधीनसामग्रीबलवत्त्वात्सर्वविषयज्ञानस्य वापत्तेः ।

न्यायलीलावतीप्रकाशविवृतिः

वादित्यत्र तात्पर्यम् । तावद्विषयकेति । न च एकदा तादृशनानाविषयज्ञानाजनकत्वमपि कारणधर्म इति नेदं दूषणमिति वाच्यम्, तथापि नियामकाभावस्य तादवस्थ्यात् । नाप्यदष्टमिति । यद्यप्यनन्यगत्या अदृष्टस्य नियामकत्वमिति सङ्कोचविकाशयोरस्तु स्वातन्त्र्येणादृष्टं नियामकं तथापि नियतताइश [१] सत्वे विभ्वेव मनोऽस्तु कृतमव [ यव ? ] कल्पनागौरवग्रस्तनावयविनेति भावः । पञ्जवुभुत्सयेति । तथा च तत्काले दृष्टो व्यासङ्गो न स्यादिति भावः । तथापीति । यद्यपि मनोऽणुत्वपक्षे सर्वविषयज्ञानोपादानमयुक्तं तथापि नन्वित्यादि- ना तटस्थेनोभयं प्रत्याक्षेपे कृते न च शब्देत्यादिना उमाभ्यामेव सि-


  1. ० ततादृशादृष्टस० ।