पृष्ठम्:न्यायलीलावती.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
न्यायलीलावतीकण्ठाभरण - सविवृतिप्रकाशोद्भासिता

न्यायलीलावतीकण्ठाभरणम्

सन्निकृष्टेऽपि विषये ज्ञानाजनकत्वामेन्द्रियाणामिन्द्रियान्तरेण ज्ञानजननावसरे तच्चानुपपन्नमेव न हि सम्भवति तदिन्द्रियस्य ज्ञानाजनने मनसोऽसन्निधानादन्यन्निमित्तमित्यर्थः । ननु व्यासङ्गकाले-

न्यायलीलावतीप्रकाशः

घटप्रागभाववदिति । केचित्तु प्रत्यक्षमेव सुषुप्तौ मानं सुप्तोऽहं न किङ्चिदज्ञासिषमिति प्रतीत्या तदानीन्तनदुःखात्यन्ताभावो विषयीक्रियते सम्बद्धविशेषणताया मनःप्रत्यासत्तेः सवादित्याहु: । तन्न, प्रतीतेर्ध्वसविषयत्वेनाऽप्युपपत्तौ सुषुप्त्यसाधनात् [१] । व्यासङ्गे च यद्यपि वहिरिन्द्रियसम्बन्धोऽस्त्येव तथापीन्द्रियान्तरसम्वन्धो नास्ति व्यासङ्गदशायां स्वस्वविषयसम्बन्धेऽपीन्द्रियाणां यस्यासम्ब न्धान्न युगपज्ज्ञानानि तदिन्द्रियसहकारिक्रमेण तदधिष्वापर्क तदेव मनः सुखादिग्राहकमिति धर्मिग्राहकमानसिद्धं मनसोऽणुत्वम् । अत एव धर्मिग्राहकमानबाधितं वैभवानुमानम् । न च ज्ञानकरणधर्मत्वेन व्यासङ्गः उपपाद्यः, तथापि पञ्चसु यदेकं जनयति तत्र

न्यायलीलावतीप्रकाशविवृतिः

दृष्टान्तासिद्धिः । शरीरप्रागभावस्य दृष्टान्तत्वात् । घटप्रागभावग्र हणं तु प्रागभावान्तराणामपि सुषुप्तिकालीनतया पक्षसमत्वेन न व्यभिचार इति सूचनार्थमिति मिश्राः । केचित्तु मदीयजागराद्यज्ञानाव्यवहितप्राक्कालीनत्वं विशेषणमतो नोक्तदोष इत्याहुः । तन्न, तथा सति कार्यद्रव्याधिकरणपदव्यर्थतापत्तेः । प्रलयस्यापि तत एव बाधनात् । वयन्तु स्थूलकालोपाध्यवच्छिन्ना वृत्तिरिह साध्या प्रायेण च क्षणमात्रमेव तादृशी वृत्तिरिति नोक्तदोष इति ब्रूमः । चरम ध्वंसे व्यभिचारवारणाय हेतौ प्रागिति । न चाप्रयोजकत्वं तदा प्रत्यक्षगुणसत्त्वे तदनुभवविषयत्वबोध्ये [२] तत्कालीनत्वेन स्मरणापातादिति । 'इति प्रतीत्या' इत्यादिप्रतीत्येत्यर्थः । दुःखात्यन्ताभाव इति । दुःखाद्यत्यन्ताभाव इत्यर्थः । प्रतीतरिति । यद्यपि तत्कालीनत्वेन पूर्वोत्पन्नयावद्विशेषगुणध्वंससिद्धावपि सुषुप्तिसिद्धिस्तथापि तत्कालीनत्वेनापि तावान् ध्वंसो ग्रहीतुं न शक्यते योग्यानुपलब्धेरभा-


  1. तदानीं ज्ञानाभावस्य इदानी म्यानुपलब्धिविरहेण न प्रत्यक्षत्वमिति तु तत्त्वम् । इति दीधिति ।
  2. धैव्पे ।