पृष्ठम्:न्यायलीलावती.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
न्यायलीलावती


च्चेति चेत् । मैवम् । सुष्वाप [१]व्यासङ्गयोर्बहिरिन्द्रियमनःसम्बन्ध-


न्यायलीलावतीकण्ठाभरणम्

त्रिश्छिन्नेति। सुस्वापेति । सुप्तोऽहं न किञ्चिदशासिषमिति प्रत्यक्षं तावन्न सुषुप्तौ प्रमाणम्, अस्याः प्रतीते: ध्वंसविषयतयोपपत्तेरिति केचित् । मदीयजागराद्यज्ञानप्रागभावो मदीयप्रत्यक्षविशेषगुणानधिकरणकार्य्यद्रव्याधिकरणवृत्तिः प्रागभावत्वात् घटप्रागभाववदित्यनुमानात् सुषुप्तिसिद्धिः । इयं च सुषुप्तिर्मनसो वैभवे न स्याद् व्यासङ्गश्च

भ्यायलीलावतीप्रकाशः

स्त्रिरिति । अणुत्वे मनसो द्विस्त्रिच्छिन्नभुजगादौ चेष्टा न स्यात् । यदवच्छेदेन मनःसंयोगात् प्रयत्न उत्पद्यते तदवच्छेदन प्रयत्नवदात्मसंयोगासमवायिकारणिकाया चेष्टाया उत्पत्तेरित्यर्थः । सुष्वापेति । सुस्वापेति युक्तः पाठः । "सुविनिर्दुर्भ्य: सुपिसूतिसमा" (अष्टाध्यायी, ८।३।८८) इत्यत्र कृतसम्प्रसारणनिर्देशात् यत्रैव सम्प्रसारणं तत्रैव मुर्द्धन्यविधानात् ।

 यदा मनस्त्वचमपि परिहृत्य पुतिति वर्त्तते तदा सुषुप्तिर्विभुत्वे न स्यात् । न च तत्र मानाभावः, मदीयजागराद्यज्ञानप्रागभावो मदीयप्रत्यक्षविशेषगुणानधिकरणकार्यद्रव्याधिकरणवृत्तिः प्रागभावत्वात्

न्यायलीलावतीप्रकाशविवृतिः

 मिश्रास्तु सामान्यव्याप्त्या तर्क्कोऽयमित्यग्निसंयोगजन्यरूपमेव दृष्टान्तः । अवच्छेदकत्वं च स्वरूपसम्बन्धविशेष इति नाधारस्यावच्छेदकत्वमिति नादृष्ट (द्विष्ठ?) पदापेक्षेति वदन्ति ।

 'निमित्तसमवायस्य' निमित्तसंसर्गस्य । मदीयेति । अन्यज्ञानप्राग. भावपक्षतायां मदीयमुक्त्यधिकरणकालवृत्तित्वेनार्थान्तरमतो मदीयेति । जागराद्यपदं तु तत्पूर्वकालीन सुषुप्तिसिद्ध्यर्थम् । ज्ञानान्योन्याभावस्य कपालवृत्तितयाऽर्थान्तरमतः प्रागिति । सुषुप्तिकालेऽप्यन्यदी- यज्ञानसत्वाद्वाध इति साध्ये मदीयेति । अदृष्टसत्वाद्वाध इति प्रत्यक्षेति । आत्मैकत्वादिप्रत्यक्षतापक्षे तत्सत्त्वाद्वाध इति विशेषेति । वृत्तप्रलयवृत्तितयाऽर्थान्तरमिति कार्यद्रव्याधिकरणेति । न च प्रयाण[२] कालेनार्थान्तरं कार्यपदस्य मदीयजीवितशरीरपरत्वात् । न च


  1. सुखापव्या० ।
  2. प्रायणका० ।