पृष्ठम्:न्यायलीलावती.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
न्यायलीलावती कण्ठाभरण- सविवृतिप्रकाशोद्भासिता


सङ्गात् । सुखादिदेशनियामकत्वमपि सामग्रीदेशनियमस्यैव । अन्यथाऽणुमात्रदेशतापत्तेः । द्विस्त्रिश्च्छिन्नभुजगादौ चलनदर्शना-


न्यायलीलावतीकण्ठाभरणम्

त्यत आह -- सुखादीति । असमवायिकारणं स्वावच्छिन्न एव जनयतीति व्याप्त्यभिमानादाह - अन्यथेति । यदि च न मनो विभु तदा गोधाभुजगादिषु छिन्नेषु खण्डशक्ष्चनं चेष्टा च न स्यादित्यत आह --द्वि-

न्यायलीलावतीप्रकाशः

कज्ञानजनकत्वं स्वभावस्तदा समः समाधिरित्यर्थः । ननु चासमवायिकारणाधीनो विभुकार्याणां प्रादेशिकत्वनियम इति विभुमन:- संयोगात् सुखादेरुत्पत्तौ नियतदेशता न स्यादित्यणु मन इत्यत आह -- सुखादीति । त्वयापि सुखादरणुदेशतापत्त्या निमित्तचन्दनाद्यनुरोधेन न्यूनाधिकदेशता वाच्येति समः समाधिरित्यर्थः । न च विभुकार्यासमवायिकारणं स्वावच्छिन्ने कार्यं जनयत्येवति नियमस्तथा च चन्दनाद्यनवाच्छन्नेऽपि सुखमुत्पद्यतेति वाच्यम्, तद्देशीयचन्दनसुखं हि तद्देशचन्दनसम्बन्धसापेक्षमसमवायिकारणमिति कथं तन्निरपेक्षं तत्कुर्यात् । चन्दनं च स्वावच्छिन्न देशे सुखजनकमिति कथं स्वानवच्छिन्ने देशे तज्जनयेत् । अत एव चरणसुखं यदि शरीरावच्छिन्नासमवायिकारणकं स्यात् शरीरव्यापकं स्यादित्यपास्तम्, अप्रयोजकत्वात् निमित्तसमवायस्य तत्प्रयोजकत्वात् । द्वि-

न्यायलीलावतीप्रकाशविवृतिः

चारः । अन्यथा कायव्यूहदशायां तत्र व्यभिचारापत्तेः । न चैवमेकत्रात्मनीति व्यर्थं शरीरस्य विषयतया शरीरत्वेन च नानाज्ञानजनकतया व्यभिचारवारकत्वात् । विभुकार्येति । विभुविशेषगुणेत्यर्थः । तेन न कर्मजसंयोगे व्यभिचारः । तद्देशीयेति । तथा चोक्त नियमोऽप्रयोजक इति भावः । चरणसुखमिति । अत्र विशेषत एव व्याप्तिः । अवच्छेदकत्वं च घ्यावर्त्तकत्वमात्रम् । तेन शरीरकर्मजवेगो दृष्टान्तः । शरीरस्याव्याघारीभूय कर्मव्यावर्त्तकत्वात् । न चैवं शरीरकर्मजन्यशरीराकाशसंयोगे व्यभिचारः । अदृष्टत्व (अद्विष्ठत्व ?) स्यापादकविशेषणत्वात् ।