पृष्ठम्:न्यायलीलावती.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
न्यायलीलावती


यापत्तेः । एकदाऽनेकज्ञानानुत्पादस्य ज्ञानकारण [१] त्वेनैव समूहालम्बनबोध [२] वदुपपत्तेः । नानाविषयज्ञान [३] स्याप्यत एवोत्पत्तेः । अन्यथा गुडादौ युगपद्रसस्पर्शा [४] वभासप्र-


न्यायलीलावतीकण्ठाभरणम्

र्षे ज्ञानयौगपद्यं परिहरति — एकदेति । ज्ञानकरणत्वेनेति । एकं ज्ञानकरणमेकदा एकमेव ज्ञानं जनयतीति स्वाभाव्येनेत्यर्थः । समूहालम्ब नवदिति । घटपटाद्यनेक विषय चक्षुः सन्निकर्षेऽप्येकज्ञानवदन्यथा तत्रापि यावद्विषयं ज्ञानभेदः स्यादित्यर्थः । ननु तथापि नानन्द्रियकरणकमेकमेव ज्ञानमुत्पद्यतामत आह - नानाविषयेति । अत एवेति । मनस एकेन्द्रियकरणकज्ञानमात्रजनन एव स्वभावावधारणादित्यर्थः । एकं करणमेकदा एकत्र एकावच्छेदेनैकामेव क्रियां करोतीति करणसामान्यधर्मोऽभिमतः । ननु मनोवैभवे सकलशरीरावच्छेदेनैव सुखदुःखे स्यातां विभुकार्य्यस्य असमवाधिकारण प्रादेशिकत्वानुरोधित्वादि-

न्यायलीलावतीप्रकाशः

तथाप्येकं ज्ञानकरणमेकत्रात्मन्येकदैकमेव ज्ञानं जनयति समूहालम्बने तथादर्शनात् । कथमन्यथा नानाज्ञान सामग्रीसत्त्वे समूहालम्बनमेकं ज्ञानमित्याह – एकदेति । न चान्यज्ञानसामग्रीसत्त्वे कार्यावश्यम्भावस्तदसत्त्वे किं करणधर्मेणेति वाच्यम्, ज्ञानकरणस्यैकदैकमा त्रजनकस्वमावत्वेनापराजनकतया कारणभावे सामग्यूसत्त्वादित्यर्थ: । नन्वेवमपि वहूनि ज्ञानानि नोत्पद्यन्तां नानेन्द्रियविषयविषयकमेकं ज्ञानं स्यादेव एकेन्द्रियजलसमूहालम्ब नवदित्यत आह -नानेति । 'अत एव' कारणस्वभावादेवेत्यर्थः । अन्यथेति । यदा रसनावच्छेदेन मनःसंयोगस्तदा त्वगवच्छेदेनापत्यिणुत्वेऽपि मनसो रसस्पर्शाविषयकमेकमेव ज्ञानमुत्पद्येत । अथ मनस एकदा एकेन्द्रियविषयविषय-

न्यायलीलावतीप्रकाशविवृतिः

त्वाद् वेति दिक् । तथाप्येकमिति | कायब्यूहेऽनेकानि करणान्येकत्रात्मन्यनेकं ज्ञानं जनयन्त्येवेति व्यभिचार इत्ये कमित्युक्तम् । मनस्तु तत्रापि शरीरभेदेन भिन्नमेव । तद्दशायामेव काले व्यभिचार इति ज्ञानकरणपदम् । जन्यज्ञानत्वावच्छिन्नकरण ताश्रय इत्यर्थः । तेन नालोकादौ व्यभि-


  1. ज्ञानकरण० ।
  2. ०लम्बनवदु० ।
  3. ज्ञानानुत्पादस्या०। ज्ञानाना विषयैकज्ञानाभावस्थापि तत एवोपपतेः ।
  4. स्पर्शाभावप्र० ।