पृष्ठम्:न्यायलीलावती.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


त्वात् । स्पर्शवत्संयोगस्य स्पर्शवद्द्रव्यारम्भादौ सामर्थ्यात् । अमूर्तादपि भिद्यते, मूर्तत्वात् । तदसिद्धम् । सुखदुःखयोरबाधितयुगपत्प्रत्ययविषयत्वेन यौगपद्यात् । अन्यथा यौगपद्यविल-


न्यायलीलावती कण्ठाभरणम्

ति स्वरूपकथनार्थम् । स्पर्शवतुसंयोगस्येति । स्पर्शद्वयसंयोगस्येत्यर्थः । आदिपदात् कर्म्मसंग्रहः । मूर्त्तत्वादित्यस्य मूर्त्तेभ्य इत्यर्थः । भट्टः प्रत्यवतिष्ठते -- तदसिद्धमिति । पादे मे सुखं शिरास वेदनेति प्रतीत्या सुखदुःखदुःखयोगपद्यं प्रतीयते । तच्च मनोवैभवे सत्येवोपपद्यते शरीराव च्छेदेन नानावयविनो मनसः कल्पने कल्पना गौरवं मनःपञ्चककल्पने ऽपि गौरवमेवेति भावः । अन्यथेति । अबाधित यौगपद्यप्रतीत्यापि यदि यौगपद्यं न स्यादित्यर्थः । मनोवैभवे युगपदनेकेन्द्रियसन्निक-

न्यायलीलावतीप्रकाशः

माणावष्टम्भेनाह - स्पर्शवत्संयोगस्येति । न चान्त्यावयविनि व्यभिचारः नित्यद्रव्यवृत्तिस्पर्शस्य द्रव्यारम्भक संयोगव्याप्यत्वमित्यर्थात् । सुखदुःखयोरिति । पादे मे सुखं शिरलि मे वेदनेत्यनेन रूपेणेत्यर्थः । एतच्च यद्यपि शरीरपरिमाणसमानपरिमाणत्वेऽपि मनसः सिद्ध्यति तथापि तस्यावयवकल्पनायां मानाभावात् स्पर्शात्यन्ताभाववतो द्रव्यस्य विभुत्वनियमायोपपाद्यम् । यद्यप्येकं करण मेक दैकमेव कार्य जनयतीति न नियमः, एकेनाग्निसंयोगनैकदा घटेऽनेक रूपाघुत्पत्तेः एकेन कुठारेणैकदाऽनेकत्र छिदादर्शनात, एकेनैव शब्देनाने कशब्दोत्पादनात् । अथैकं करण मेकत्रैकावच्छेदेनैकजातीयामेकामेव क्रियामुत्पादयतीति नियमः, तथात्वेऽपि चक्षुराद्यवच्छेदेन भिन्नदेशीयां शब्दवत् परमाणाविव विजातीयामझिसंयोगवदनेकां क्रियां कुर्यादेव

न्यायलीलावतीप्रकाशविवृतिः

योगे । एकत्रेत्यत्र घट इति पिठरपाकमते । अथैकमिति । न चैकावच्छेदेनेति दत्ते एकत्रेति व्यर्थे श्येनकर्मणा चरणावच्छेदेन युगपच्छाखावृक्षसंयोगजनकेन व्यभिचारवारकत्वात् । न च श्येनरूपाधिकरणैक्यात् तेनापि तद्वारणम्, एकत्रेत्यनेनार्थतोऽव्यासज्यवृत्तित्वस्य कियाविशेषणतया लाभात् । यावद्धिकरणैक्यस्य तत्पदेन विवक्षित-