पृष्ठम्:न्यायलीलावती.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
न्यायलीलावती


घ्राणरसनयोरेक शेषापत्तेः । श्रोत्रमपि द्रव्यान्तरं स्यादिति चेन्न, तत्र शब्दासमवायात् । शब्दसमवाये वा तस्याकाशत्वात् । मनसच ज्ञानासमवायिकारणसंयोगाश्रयत्वेन आत्मवत्स्पर्शानाधार-


न्यायलीलावतीकण्ठाभरणम्

आकाशादन्यदित्यर्थः । श्रोत्रं कर्णशष्कुल्येवेति भ्रान्तस्य वा शङ्का । तत्रेति । आकाशादन्यत्रेत्यर्थः । समवाय एव सन्निकर्ष: शब्दग्राहक इति भावः । ननु तदेव द्रव्यान्तरं शब्दसमवायिकारणं स्यादित्याह--- समवायेति । मनसः स्पर्शवत्वं यदाशङ्कितं तत्राह - मनसश्चेति । स्पर्शानाधारत्वादिति । स्पर्शानाधारत्वानुमानादित्यर्थः । आरम्भकत्वं मनसो यदाशङ्कितं तत्राह - स्पर्शवदिति । द्रव्यारम्भादि (दावि ?) ति वक्तव्ये स्पर्शवदि-

न्यायलीलावतीप्रकाशः

घ्राणैकपरिशेषः । उपहतघ्राणस्यापि रसोपलव्धेः ।

 कर्णशष्कुल्येव श्रोत्रमिति भ्रान्त आक्षिपति-श्रोत्रमपीति । तत्रेति । द्रव्यान्तर इत्यर्थः। वहिरिन्द्रियस्य ग्राह्यजातीयासाधारणगुणवत्त्वनियमात् । न च स्पर्शवत्त्वमुपाधिः विशेषगुणविरहे वहिरिन्द्रियत्वानुपपत्या हेतोः साध्यव्याप्यतयोपाधेः साध्याव्यापकत्वादिति भावः । मनसोऽस्प र्शवत्वमसिद्धमिति दूषयति - मनसश्चेति । न चात्मत्वमुपाधिः, तुल्ययो गक्षेमत्वात् । अत एव मनसो नित्यत्वमपि साध्यं स्पर्शाभावसाधकप्र-

न्यायलीलावतीप्रकाशविवृतिः

तथा च घ्राणरसनयोरेकजातीयतापत्तेरिति मूलतात्पर्य्यम् । ननु श्रोत्रस्य द्रव्यान्तरत्वे इष्टापत्तिरेवेत्यत आह - कर्णशकुल्येवेति । द्रव्यान्तर इति । त्वन्मत इति शेषः । वाहीरीन्द्रयस्येति सगुणानामिन्द्रियभावादिति भावः । तथा च शब्दसमवायि यत्तदेव श्रोत्रं तच्च द्रव्यान्तरमेवेति सिद्धसाधनमेवेति प्रघट्टकार्थ: । 'विशेषगुणविरहे' ग्राह्यजातीयविशेषगुणविरहे । यद्यप्युपाधिदातुरिदमेवासिद्धं तथापि सन्तानक्रमेण श्रोत्रसमवेतस्यैव शब्दस्य ग्रहसम्भवपक्षे साध्यसिद्धावुपाघे: साध्यव्यापकत्वमिति भावः । ननु विषयइयोरित्याद्यन्यथासिद्धिप्रद्र्शनात् स्पर्शवत्वेऽप्यनारम्भकत्वं स्यादित्यत आह - स्पशीभावति । तच्च प्रमाणमव्यवहितोक्कमेवेति भावः । अन्त्यावयविनि अन्त्यावयविसं-