पृष्ठम्:न्यायलीलावती.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


प्यसिद्धेः । अनारम्भकत्वात्तत्सिद्धिरिति[१] चेन्न, विषयदेहयो:


न्यायलीलावतीकण्ठाभरणम्

त्याह – अनारम्भकत्वादिति । अनारम्भकत्वस्यास्पर्शवत्त्वसाधकत्वेऽन्यथासिद्धिमाह — विषयेति । 'परमाण्वन्तरात्' पार्थिवादिपरमाणोः । तर्हि

न्यायलीलावतीप्रकाशः

स्यादित्यर्थ: । घ्राणादिवदिति सप्तमीसमर्थाद्वतिः । तेन घ्राणघटादौ क्षितित्वावान्तरजातिवन्मनस्यव्यस्त्वित्यर्थ इत्यन्ये ।

 अनारम्भकत्वादिति । नन्वनारम्भकाणुत्वादित्यसाधारणं द्रव्यानारम्भकत्वादिति चान्त्यावयविन्यनैकान्तिकम् । अत्राहुः । द्रव्यानारम्भकनित्यवृत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वादस्पर्शं मन इत्यर्थः । न च मनसो द्रव्यानारम्भकत्वमसिद्धं ज्ञानासमवायिकारणसंयोगाश्रयत्वात्तत्सिद्धेः । द्रव्यानारम्भकत्वे निःस्पर्शत्वं न प्रयोजकं किन्तु प्रयोजनाभावः। प्रकृते

न्यायलीलावतीप्रकाशविवृतिः

इति तत्प्रतिसन्धानगौरवमेव । द्रव्यानारम्भकेति । द्रव्यत्वेत्यादौ कृते घंटे व्यभिचार इति द्रव्यानारम्भकनित्यवृत्तीति जातिविशेषणम् । तत्रापि पृथिवीत्वादौ घटादिवृत्तितया तद्दोषतावस्थ्यमिति नित्येति द्रव्यानारम्भकविशेषणम्। नित्यमात्रविशेषणे च स एव दोषः पृथिवीत्वादेः परमाणुवृत्तित्वादिति प्रथमविशेषणं द्रव्यत्वमादाय स एव दोष इति द्रव्यत्वव्याप्येति । साक्षात्पदं च भेदार्थकम् । न च द्रव्यानारम्भकनित्यत्वादित्येव हेतुरस्त्विति वाच्यम्, यथोक्तविशेषणविशेष्यभावे वैयर्थ्याभावादित्याहुः । वस्तुतो द्रव्यानारम्भके नित्ये वर्त्तते या जातिरित्यन्वयेन द्रव्यानारम्भकमात्रवृत्तित्वं लभ्यते । एवञ्च घटत्वमादाय घटे व्यभिचारवारणाय साक्षात्पदसार्थकता व्यर्थत्वशङ्काविरहश्च । केचित्तु नव्यत्यासेन द्रव्यारम्भकनित्यावृत्तीत्यर्थः । अन्यच्च पूर्ववदेवेत्याहुः । तन्न, नित्यपदोपादानप्रयोजनाभावात् ।

 मिश्रास्तु द्रव्यानारम्भकनित्यत्वात् द्रव्यानारम्भकवृत्तिद्रव्यत्वसाक्षाद्याव्यजातित्वाश्चेति हेतुद्वयम् । तद्वृत्तित्वं च तन्मात्रवृत्तित्वमिति वदन्ति । तदव्येकहेतुत्वेनैवोपपत्तेर्मात्रपदाध्या हारगौरवाच्चायुक्तमेव । ज्ञानेति । अत्रालोके व्यभिचार इत्यसमवायिपदम् । प्रागभावे व्यभिचा-


  1. ०त्वात् तदिति चे० ।