पृष्ठम्:न्यायलीलावती.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
न्यायलीलावती


परमाण्वन्तरादप्युत्पत्ता [१] विन्द्रियतया च फलामावादन्यथासि द्धेः । पार्थिवाणोरपि कस्यचित्तादृशत्वापत्ते : [२]

 न चेदेवं घ्राणमपि पार्थिवं न स्यात् । ततः कल्पनालाघवादेव [३] तदुचितम् । व्योमादेश्च भेदानुपपत्तेः मूर्त्तत्वादिति चेन्न, अस्पर्शवत्वेन[४] तत्प्रतिक्षेपात् । ततो भेदकाभावान्न भिद्यत इति


न्यायलीलावतीकण्ठाभरणम्

इन्द्रियमेव किञ्चिदारभतां मन इत्यत आह - इन्द्रियतयेति । मनसैव सुखादिसाक्षात्कारसम्भवात् किमिन्द्रियान्तरेणेत्यर्थः । पार्थिवाणोरिति । मनः पार्थिव एव परमाणुरस्तु न चारम्भकमित्यर्थः । 'तादृशत्वम्' अनारम्भकत्वम् ।

 न चेदेवमिति । गन्धग्राहकत्वेऽपि मनश्चेन पाथिवमित्यर्थः - एतदिति । मनसः पार्थिवत्वमित्यर्थः । व्योमादेश्चेति । अस्पर्शवत्वस्य हेतोस्ततो ऽव्यावृत्तेरित्यर्थः । मूर्त्तत्वात् व्योमादेर्भेदेसिद्धिरित्याह- मूर्त्तत्वादिति ।

न्यायलीलावतीप्रकाशः

च तथेत्याह-विषयेति । अनारम्भकत्वान्निः स्पर्शत्वे साध्ये सन्दिग्धव्यभिचारितामाह - पार्थिवेति । 'तादृशापत्तेः' तादृशत्वापत्तरित्यर्थः। न चेदेवमिति । यदि क्लृप्तपार्थिवकिञ्चिद्वैधर्म्येण न पार्थिवत्वं तदा घ्राणस्यापि गन्धाद्यन्यतमानुद्भवान्न पार्थिवत्वं स्यादित्यर्थः । अथ धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायान्न द्रव्यान्तरं कल्प्यते किन्तु पृथिव्यामेव किञ्चिद्वैधर्म्यं तर्हि प्रकृतेऽपि तुल्यमित्याह -तत इति । तथाप्यस्पर्शत्वाभ्युपगमे मूर्त्तत्वाभ्युपगमो व्याहत इति विवक्षितं सुखादयो मूर्त्तसंयोगासमवायिकारणकाः । एतदिति । पृथिव्या एव मनस्त्वमित्यर्थः । अस्पर्शेति । स्पर्शात्यन्ताभाववद्रव्यत्वेनेत्यर्थः । यद्य-

न्यायलीलावती प्रकाशविवृतिः

रादाह-स्पर्शात्यन्तेति। अत्र द्रव्यपदममूर्त्तत्वेन विभुत्वमुक्तमित्यभिप्रायेण चित्रस्पर्शाभ्युपगमाच न विरुद्धस्पर्शवदारब्धे व्यभिचारः । व्याहत इति । तथा च परं प्रति परम्पराभ्युपगमविरोध प्रदर्शनमिदं न तु सा-


  1. ०दप्युपपत्तवि० ।
  2. तादृशापत्तरिति प्रकाशसम्मतः पाठः ।
  3. व्व एतदुचितमिति कण्ठाभरणादिसम्मतः पाठः ।
  4. अस्पर्शद्रव्यत्वेन ।