पृष्ठम्:न्यायलीलावती.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
न्यायलीलावती


नाप्ययं सन्दिग्धव्यभिचारः । इन्द्रियप्रतीतावप्रतीतौ च व्याघातात् । ततो यत्सुखोपलम्भकमिन्द्रियं तन्मनः ।

 कथं पुनरितरभेदीदम् । मनस्त्वजातेरिति चेन्न, अनुगतप्रत्ययासिद्धौ शब्दा[१] प्रवृत्तेः । सुखोप लम्भकत्वेनाप्युपपत्तौ इन्द्रियत्ववदसिद्धेः । अस्तु वा सा[पि] घ्राणादिवत् क्षितेरवान्तरजातिः । नापि सुखोपलम्भकेन्द्रियत्वात्तदपार्थिवं, पार्थिवत्वेऽपि तदविरोधात् । न चास्पर्शवत्त्वात्ततोऽपि भिद्यत इति वाच्यम्, तस्या-

न्यायलीलावतीकण्ठाभरणम्

कदेशः । अयमिति । मनःसाधको हेतुरित्यर्थः । सुखसाक्षात्कारोऽपि इन्द्रियजन्यो माSस्त्विति विपक्षबाधकाभावः सन्दिग्धव्यतिरेकित्वमिन्द्रियस्य साक्षात्कारिप्रतीतिजनकत्वेनैव सिद्धेः साक्षात्कारोऽपि इन्द्रियजन्यो माऽस्त्विति शङ्कैव नावतरतीत्याह - इन्द्रियेति । प्रकृतमुपसंहरति - तत इति ।

 कथमिति । मनस इतरभेदसिद्धौ को हेतुरित्यर्थः । नन्वनुगतप्रतीतिस्तावनास्ति मनस्त्वसाधिका मनःपदप्रवृत्तिनिमित्तानुरोधोऽपि नास्तीत्याह—अनुगतेति । अभ्युपेत्याह प्राणादिवदिति । भावप्रधानो निर्देशः । तेन घ्राणत्वदिवदित्यर्थः । सप्तमीसमर्थाद्वतिः । सिध्यतु मनस्त्वं जातिस्तथापि पृथिव्येवास्त्वितिभावः । तत इति । पृथिवीत इत्यर्थः । तस्यापीति । अस्पर्शत्व स्थापीत्यर्थः। अनारम्भकत्वादस्पर्शसिद्धिरि-

न्यायलीलावतीप्रकाशः

व्यभिचारात् । नाप्ययमिति । 'अयं' साक्षात्कारिप्रतीतित्वादिति हेतुरित्यर्थः । इन्द्रियप्रतीतावति । इन्द्रियस्य साक्षात्कारिप्रतीतिजनकत्वेनैव प्रतीतेरिन्द्रियं विना साक्षात्कारानुपपत्तेः । अथेन्द्रियमेव न प्रतीतं तदा व्यतिरेकाज्ञाने सन्देहाभावादित्यर्थः । घ्राणादिवदिति । भावप्रधानो निर्देशः । येन घ्राणत्वघटत्ववत् क्षितित्वव्याप्यं मनस्त्वं जातिः

न्यायलीलावतीप्रकाशविवृतिः

द्वीजं तु प्रथमव्याख्याने विशिष्टघ्राणत्वलाभः । अत्र तु घ्राणवृत्तिजातीनामन्यासां पृथिवीत्वावान्तरत्वबाधेन योग्यताबलाचल्लाम


  1. शब्दप्रवृत्तेः ।