पृष्ठम्:न्यायलीलावती.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२७
न्यायलीलावतीकण्ठाभरण-सविष्तिप्रकाशोद्धासिता


वैतदपीति । सामग्रीसाजात्यं तत्र हेतुरिति चेन्न, एकदेशसाजात्यस्य नीलादौ व्यभिचारात्‌ । अन्यस्यासिद्धेः ।


न्यायलीलावतीकण्ठाभरणम्‌

सामग्री्तजातीयसामग्रीकत्वात्‌ ज्ञानवदिति शाङ्कने-सामग्रेति । तत्र हेतु रिति । ज्ञानाभिन्नत्वे हेतुरित्यर्थः। ज्ञानसामग्रीजन्यत्वमसिद्ध क्षानकारणजन्यत्वं च नीलादौ व्यमि चारीत्याह--एकदेशेति । देशकालादिरेः-

म्यायलीखवतीप्रकाशः

रकादाचित्कत्वमपीत्यथैः । सामग्रीति । सुखं ज्ञानं ज्ञानसामग्रीजन्यत्वादित्यर्थः । अन्यस्थेति ।

 नन्विन्द्रियार्थसान्निकर्षजन्यत्वात्‌ सुखं ज्ञानात्मकं स्यात्‌ । अत्राहुः । सुखमात्रस्य पक्षत्वे भागासिद्धिः, मानोरथिकादिसुखसम्भवात्‌ , सुखविशेषस्य पक्षत्वे चाप्रयोजकत्वम्‌ । न च ज्ञानत्वे आत्ममनःसंयोगासमवायिकारणकत्वं प्रयोजकम्‌ , इच्छादौ

न्यायलीलावतीप्रकाशविवृतिः

रण्यं च साक्षात्कारत्वव्याप्यधर्मावच्छिन्नकार्यताप्रतियोगिककारणताश्रयत्वमत एव प्राणशरीसादिभिन्नासिद्धसाघनम्‌ । हेतुश्च साक्षात्कारित्वं जातिरेवेति न व्यर्थता। न च प्रतीतित्वादिव्येव हतुः किमिति न कृत इति वाच्यम्‌, अगोकरणिकान्यायापत्तेः। असाधारण्यनिर्न्वचने च कार्यतायां स्वनिष्टत्वमपि विशेषणमतः प्रतीत्यन्तरे व्यभिचारादेव वा स नकत हति वदन्ति । इन्दिथा्थसान्नकरषंजन्यत्वादिति । न च सयोगजस्रंयागविशिषे व्याभिचारः, तत्त्वेनेति हेतुविशेषणात्‌ । तदन्यत्वेन हेतुविशेषणमिति कोचेत्‌ । तन्न तथापि तद्ष्वंसे व्यभिचारात्‌ । सुखखमत्रस्थेति । वस्तुतो भेदश्रादिपरत्यक्षबाध दति भावः। मानोरथिकादीत्यादिपदेनाम्यासिकानभिमानिकपरिग्रहः । अप्रयोजशत्वमिति । इन्द्रिया थसान्नेकरषजत्वं न ज्ञानत्वे प्रयोजकमनुभित्यादौ तदमावापत्तेः। तथा च यथा तद्धिनाप्यनुमितौ श्षानत्वं तथा तत्सत्वेऽपि सुखस्याक्चानत्वं स्यादिति भावः । अप्रयोजकत्वं च सुखमात्रपक्षतायामपि द्रष्टव्यम्‌ । वस्तुतः सविषयकत्वमुपाधिः। न च चन्दनुखलभित्यनुभवात्तस्यापि सविषयत्वं तेन तन्निमित्तकत्वमात्रतालाभात्‌ । न चेति । इर्श्वरानङ्कीकारादित्यर्थः । अन्य इत्यस्वरसविभवषनम्‌ । त.