पृष्ठम्:न्यायलीलावती.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
ब्यायलीलावती


वत् । न च शाता [था] कारो ज्ञानात्मैवेति वाच्यम्, नीलादिबोधेऽपि तथाभावप्रसङ्गात् । कदाचित्ऋत्वान्नैवमिति चेतुल्यम त्रापि ॥ वासनापरिपाककादाचित्कत्वं तत्र हेतुरिति चेत्तादृगे-


न्यायलीलावतीकण्ठाभरणम्

न चेति । 'शातं' सुखम् । अहं जाने इति बोधादहं सुखीति विलक्षणः सुखबोधस्तस्य कथं ज्ञानविषयत्वमन्यथा नीलबोधेऽपि विलक्षणः कः समाइवास इति नीलाद्यपि ज्ञानाद् भिन्नं न स्यादित्यर्थः । 'तथाभावप्रसङ्गात् ज्ञानविषयत्वप्रसङ्गात् । नीलादिज्ञानं कादाचित्कमतो नीलादिवाह्यसन्निकर्षाधीनमिति यदि तदा सुखमपि तथेति शङ्कोत्तराभ्यामाह- कादाचित्कत्वादिति । नैवमिति। न ज्ञानाभिन्नत्व मित्यर्थः । कादाचित्कवाह्यनीलादिसन्निकर्षाधीनो नीलाद्यनुभवो भवतु ज्ञानभिन्ननीलादिविषयकः, सुखानुभवस्तु वासनाधीनकादाचित्कत्वेन न ज्ञानभिन्नं विषयमपेक्षत इति शङ्कते - वासनेति । 'वासना' संस्कार: | नीलादिबोधोऽपि वासनामात्राधीनकादाचित्क इति नीलाद्यपि न ज्ञानभिन्नमित्याह - तादृगिति । ननु सुखं ज्ञानाभिनं ज्ञान-

न्यायलीलावतीप्रकाश:

प्रतीतिः सैवेति सिद्धसाधनं तस्य वहिरिन्द्रियजन्यत्वात् । अथ ज्ञानभिन्नं सुखं पक्षः तदाश्रयासिद्धिरित्याशङ्कय निराकरोति--- न चेति । अहं जानेऽहं सुखीतिविलक्षणधीवेद्यत्वेऽपि ज्ञानस्य सुखात्मकत्वे नीलाद्यपि तथा स्यादिति वाह्यविलोपः, तस्यापि स्वप्रकाशत्वात् । तत्साक्षात्कारकरणत्वेन चक्षुराद्यपि न स्यादित्याह – नीलादीति । नैवमिति । न वाह्येन्द्रियाजन्यत्वमित्यर्थः । वासनेति संस्कारस्य सहकारिलाभकादाचित्कत्वं सुखस्य तथात्वे हेतुरित्यर्थः । तादृगिति | नीलाद्याका-

न्यायलीलावतीप्रकाशविवृतिः

वाच्यम्, साक्षात्कार हेतु सन्निकर्ष प्रतियोगित्वस्यैव जनकतावच्छेदक त्वात् तस्य च प्रतीतत्वात् | विषययस्य तु सन्निकर्षाश्रयत्वं न तु प्रतियोगित्वम् । अत एव कुसुमाञ्जलिप्रकाशेऽलौकिकविप्रतिपत्तौ इन्द्रियस्यैतत्प्रतियोगित्वं न तु तदाश्रयत्वामिति लिखितम् । त्वागिन्द्रियावृत्तीत्यत्रेन्द्रियत्वं साक्षात्प्रतीतिसाधनत्वमेव । इन्द्रियत्वेन जनकत्वमित्यस्य चासाधारण्येन जनकत्वमित्यर्थः । असाधा-