पृष्ठम्:न्यायलीलावती.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
न्यायलीलावती


न्यायलीलावतीकण्ठाभरणम्

साधनं सुखसाक्षात्काररूत्वगिन्द्रियभिन्नेन्दियजन्यः स्पर्शाविषयसाक्षात्कारत्वात् गन्धसाक्षात्कारवदित्यत्र तात्पर्थ्यात् । यद्यपि प्रतीतिमात्रं मनोजन्यं तथापीन्द्रियत्वेन जनकत्वं सुखादिसाक्षात्कारमात्रेऽन्यत्र मनस्त्वेनेति शेषः । ननु स्वप्रकाराज्ञानात् सुखं न भिन्नं तच ज्ञानं वहिरिन्द्रियजन्यमेवेति न मनःसिद्धिरित्यत आह-

न्यायलीलावतीप्रकाशः

गासिद्ध्यापत्तेः । न च बहिरिन्द्रियजन्यत्वमुपाधिः वाहरित्यम्य पक्षमात्रव्यावर्त्तकतया पक्षेतरत्वात् । ननु त्वचो ज्ञानमात्र हेतुतया सि-

न्यायलीलावती प्रकाशविवृतिः

मेव वक्ष्यमाणत्वात् । न चांशतः सिद्धसाधनवत् पक्षतावच्छेदकभेद एवांशतो बाधोऽपि दोष इति वाच्यम्, भिन्नप्रकारकसिद्धेरनुमित्यविरोधित्वेन तथास्वीकारात । बाधस्य तु भिन्न प्रकारस्यापि सिद्धिविरोधित्वमन्यथा सामान्यतो दृष्टे विशेषबाधसहकारिताव्याघातादित्यन्यत्र विस्तरः ।

 पक्षेतरत्वात् । पक्षेतरतुल्यत्वादित्यर्थः । वस्तुतो वहिरिन्द्रय त्वं यदि मनोभिन्नेन्द्रियत्वं तदा मनसोऽसिद्धावप्रसिद्धिः । यदि च विशेषगुणवदिन्द्रियत्वं तदा विशेषणर्थ्यावयप्रसिद्धिरिति दूषणम् । न च चक्षुरादिपञ्चकान्यत्वमेव वहिरिन्द्रियत्वमिति न कोऽपि दोष इति वाच्यम्, साक्षात्कारत्वेन लाघवेनेन्द्रियजन्यत्वस्य प्रयोजकतया हेतोः साध्यव्याप्यतयैव विवक्षितोपाधेरपि निरासादिति दिक् । ननु त्वच इति । न च [१] मानाभावः । सुषुप्तिकाले ज्ञानानुत्पत्तेरेव मानत्वात् । अत्र च यदा मनस्त्वचमपि परिहृत्य पुरीतति वर्त्तते तदा सुषुप्तिरिति तान्त्रिकलिखनमपि सङ्गच्छते । न चैवं गन्धाद्यव्यञ्जकत्वे सति स्पर्शव्यञ्जकत्वं वायवीयत्वसाधको हेतुस्त्वगिन्द्रिये ऽसिद्धः स्यादिति वाच्यम्, तत्रेन्द्रियत्वेन स्पर्शव्यञ्जकत्वादित्यस्यैव हेतुत्वात । अत एव सन्निकर्षे न व्यभिचारः । न चाऽसाधारण्यं विपक्षबाधकावतारे तस्यादोषत्वादिति भावः । मनोऽपीन्दियत्वेनैव स्पर्शव्यञ्जकामित्येकदेश्यभिधानेन मात्रपदगर्भः स हेतुरिति मिश्राः । तदयुक्तम् । तथा सति तुल्यन्यायतया त्वचोऽपि इन्द्रियत्वेनैव


  1. न चाभ मा०