पृष्ठम्:न्यायलीलावती.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


र्भावः । यस्मिन् सहकारिणि [१] सति कार्यमुत्पद्यते तस्यैव शक्तपदवाच्यत्वात् ॥ [इति] आत्मा ॥

 सुखप्रतीतिरिन्द्रियजा साक्षात्कारिप्रतीतित्वात् [२] रूपप्रतीति-

न्यायलीलावतीकण्ठाभरणम्

त्वात्' जनकपदवाच्यत्वात् ।

 मनःसाधनायाह - सुखेति । 'प्रतीतिः' साक्षात्कारः । अन्यथा भागासिद्धिः स्यात । सकरणिकेति वक्तव्ये मनसो द्रव्यत्वासिघ्घर्थमिन्द्रियजेत्युक्तम् । इन्द्रियस्य द्रव्यत्वनिर्णयात् । न च त्वचा सिद्ध-

न्यायलीलावतीप्रकाशः

ऋच प्रसङ्गे सहकारिसमवहितत्वमुपाधिः विपर्यये च बाधः । एतेनैतदपि निरस्तम् । यदाहुः । दृश्यते तावत्कारणे कार्योपधानं तत्र कारणत्वमेव तन्त्रं लाघवात् । न तु सहकारिमत्कारणत्वं गौरवात् । तथा च कार्यानुपहितस्य कारणत्वमसिद्धं अकारणस्य कार्योपधानं विरुद्धमिति कारणत्वाकारणत्वरूपात् प्रतिक्षणं विरुद्धधर्मसंसर्गात क्षणमात्रस्थायिता भावानामिति प्रमाणवतो गौरवस्यापि न्याय्यतया सहकारिमत्कारणत्वस्य कार्योपधानप्रयोजकत्वादिति ।

 सुखप्रतीतेः करणजन्यत्वेन न द्रव्यत्वसिद्धिरद्रव्यस्यापि करणणत्वादिति द्रव्यत्वसिद्ध्यर्थमिन्द्रियत्वेन मनः साधयति सुखप्रतीतिरिति । सुखसाक्षात्कार इत्यर्थ: । सुखज्ञानमात्रस्य पक्षत्वे हेतोर्भा-

न्यायलीलावतीप्रकाश विवृतिः

नकत्वस्याभावस्य च त्वदुक्तरीत्या विरोध एवेति भावः । प्रसङ्गे यदि समर्थ स्यात्कुर्यादित्यत्रेत्यर्थः । प्रमाणवत इति । सहकारिमत एव वीजात् कार्योत्पादो दृश्यतेऽन्यथा केवलादपि वीजादङ्कुरोत्पत्तिप्रसङ्गादिति भावः । वस्तुतो विपरीतमेव गौरवं त्वन्मते पुञ्जात्पुञ्जोत्पत्तिरितिं न्यायेन नानाकार्योपधानस्य नानाकारण मात्रवृत्तिवर्मावच्छेद्यत्वात् | त्व( म ? ) न्मते त्वेककार्यस्यैकसमूहावच्छेद्यत्वादिति दिक् । सुखसाक्षात्कार इति । जन्यसुखसाक्षात्कार इत्यर्थः । सुखज्ञानेति । अत्रासिद्धिरुपलक्षणं भागबाधोऽपि द्रष्टव्यः | हेतौ साक्षात्कारीति विशेषणवैयर्थ्य भयेनेन्द्रियत्वेनेन्द्रिय जन्यत्वस्य साध्यत्वमित्यनुपद-


  1. यत् सहकारिमति का० ।
  2. साक्षात्मतीतित्वात् ।