पृष्ठम्:न्यायमकरन्दः.djvu/७८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्दे मू०—एवं चास्मन्मतेऽवभासमानरजताभासस्यैवा लम्बनत्वाभ्युपगमादनालम्बनत्वा-ऽनुभवविरोध-वेदना कारप्रसङ्गा दूरपरास्तावकाशाः । । सदाकाराकलितस्यानिर्वाच्यताभ्युपगमे त्वनुभववि रोधं तन्निरूपणप्रस्ताव एव निराकरिष्यामः ॥ अन्यथाख्यात्यभ्युपगमेपि शुक्तिकाकारस्येदं रजत मेितिज्ञानै प्रत्यनालम्बनताभिधाने तद्भ्युपगमप्रयुक्तया चानुभवविरोधाभिधानेऽनभ्युपगम एव परिहारः । द्रव्यमात्रस्यतुस्लितभास्वररजतात्मनाऽनालम्बनता टी०-तत्राह-* एवं च ?' इति । तथापि सदाकारप्रतीयमानस्य सद्धिलक्षणत्वाभ्युपगमेऽनुभवविरोधस्तदवस्थ इति तत्राह-“स- दाकाराकलितस्य ?” इति । तन्निरूपणप्रस्तावे=अनिर्वचनीय ख्यातिसमर्थनावसरे, त्रिविधसत्त्वाऽयुपगमेन परिहरिष्याम इत्यर्थः। तत्किमन्यथाख्यातावनुभवविरोधपरिहारो नास्त्येव, नेत्याह

  • अन्यथा ' इति । शुक्तिशकलस्य शुक्तिकत्वाकारेण रजतज्ञानं

प्रत्यालम्बनत्वाभिधानेऽनुभवविरोधः किं वा शुङ्कभास्वरतादिसा धाराणाकारेण, नाद्यः तथाऽनभ्युपगमेनैवानुभवविरोधस्य परिहृ तत्वादिति भावः । प्राभाकरेण शुक्तिकाकारस्य रजतज्ञानं प्रत्याल म्बनत्वं नास्तीत्यभिधाने प्रालम्बनत्वाभ्युपगमनिराकरणाय चानु भवविरोधाऽभिधानेऽनभ्युपगम एव परिहार इति योजना, तद्भ्यु गमप्रयुक्तया प्रयोजकभूतयेति यावद् । द्वितीये दोषमाह-“द्रव्यमात्रस्य'इति, तदुक्त-ब्रह्यसिद्धिकारै: “यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः,