पृष्ठम्:न्यायमकरन्दः.djvu/७७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अख्यातिवादानरास । मू०-यत्पुनः परिशेषतोऽस्य स्मरणरूपताप्रसा धनं तदप्यनाद्यविद्याविजूम्भितरजताभासविषयविज्ञाना भासताया निपुणतरं निरूपविष्यमाणत्वात्परिशेषासम्भवे टी०–दिव्यवहारत्वमुपाधिः, पुरोवर्त्तिविषयरजतज्ञानजन्ये सं स्वकारे विवक्षितसाध्यसद्भावेप्यविसवादिव्यवहारत्वाभावेन सा ध्याव्यातेः ॥ तथापि विमतो व्यवहारः पुरोवर्तिविषयरञ्जतज्ञानजन्यो न भवति विसंवादिव्यवहारत्वादये सर्प इति व्यवहारवदू’ इति प्रकर एसमतांदुर्वारोति चेत्रदू, न, “अय व्यवहारः प्रकृतग्रहणरजतस्मर णद्धयकृतो न भवति विसंवादिव्यवहारत्वादयै सर्प इति व्यवहार वद्, इत्याभासमानयोगक्षेमत्वाद् । इदमशरजतांशविषयविज्ञानाभावे सद्धाचकस्य प्रयोगस्य तत्र प्रवृत्तेश्चाससम्भव एवेति द्वितीयानुमाने वाधकस्तकविशेष इति चेन्ना प्रकरणसमतानुमानेपि संसर्गज्ञानाभावे संसर्गव्यवहाराभावस्यैव वाधकत्वात्, संसर्गव्यवहारस्य संसर्गज्ञान नियतत्वाभावे संवादिव्यवहारेरपि तथात्वापत्तौ संसर्गज्ञानमात्र विषयेऽध्यक्षादिप्रामाण्याच्छेदप्रसङ्गादू, अन्यथा यथार्था. सर्वे प्रत्यया इत्यत्रापि पय्येनुयोगस्य तुल्यत्वाद् , ॥ अथवा पुरोवर्तिविशानं रजतविषयमिति साध्यं, तथा च न कश्चिदू दोष इति भावः, ॥ तथाण्ययथार्थज्ञानस्वीकारेऽनुभवविरोधादेः कः प्रतीकार इति प्रक्ररणसमता = समतिपक्षता, उभयपक्षसाम्यात्प्रकरणमनतिवर्तमान मत्रकरण सम , व्यक्त चैतडू गीतमीये ।।