पृष्ठम्:न्यायमकरन्दः.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अख्यातिवादनिरासः । मू०-हारप्रसञ्जकता दुर्वारा, न खल्वस्तिविशेषोऽभेद प्रहसरूपतायास्तदुचवतव्यवहारहतुता न पुनभदग्रहस टी०-गृह्यते तन्नाभेदो न गृह्यते तस्याभावातू, तदूग्रहे च विपरीत ख्यातिप्रसङ्गाद्, एवं विभ्रमस्थलेपि भेदाग्रहवद्भेदाग्रहोप्यस्ति भिन्नयोरभेदग्रहे विपरीतख्यातिप्रसङ्गादेव, तथाचोभयप्रयोजकसदू भावादेकदैव प्रवृत्तिनिवृत्ती स्यातामित्यर्थः ॥ ननु नेदमित्यत्र भेदग्रहस्यैव निवृत्तिप्रयोजकत्वान्नाभेदाग्रहस्ये त्याशङ्कयाह नखल' इति, तहहाप्यभेदग्रहस्यैवप्रवर्तकत्वं भेदाग्रहस्यैवेति विपय्र्ययो वतुं सुकर एव । ननु विभ्रमाविभ्रमसाधारण्येन भेदाग्रह एव प्रवर्तकोऽन्यथा प्रयोजकद्वैविध्यापाताद्, अविभ्रमस्थले पुनरभेदग्रहो विद्यमानोपि न प्रयोजक. किन्त्ववर्जनीयतया सन्निहित एवेति चेद्, मैवे, रजत एव नेदं रजतमिति मिथ्यावाधकज्ञानान्निवृत्तावभेदाग्रहस्यैव निवृ त्तिप्रयोजकताया वक्तव्यत्वाद्, भदग्रहस्य तत्राभावाद्, अभिन्ने भेद ग्रहस्य विपरीतख्यातित्वाद्, अभेदाग्रहस्य सम्यङिळथयासूसाधार ण्येनैकप्रयोजकत्वाद्, अविभ्रमस्थले विद्यमानोपि भेदग्रहोऽकिञ्चित् कर इति वतुं सुकरत्वाद् । यदू ग्रहणे निवृत्तिस्तद्ग्रहणात्प्रवृत्तिरित्यभिधाने न कापि दो षकलेति चेन्न, विकल्पासहत्वातू-किमिद स्वसिद्धमभिधीयते पर सिद्ध वा, न प्रथमो-गुरुमते कार्यज्ञानं प्रवर्तकमकाय्र्यज्ञानं च नि वर्तकमित्यङ्गीकाराद्, अकार्यशानस्य प्रवर्तकत्वे काय्यर्थे शब्द प्रामाण्योच्छेदप्रसङ्गातू, स्तनपानादिप्रवृत्तिदृष्टान्तेन प्रयोज्यवृद्धप्र -“न