सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मृ०-इत्यवभासागवाथना गवये व्यवहारकारणभावं भ जते, रजतावभासादनाकलितभेदमिति त्ववभास एव परा हृतः, न खल्वनाकलितभेदो रजतावभासादिति. अना कलितभेदमिति वाध्यवसातुमीष्ट, तस्मात्सत्तामात्रेणासौ विभेदाग्रहरूषा सन्निभता व्यवहारहेतुरिति वाच्यं, तथाचा भेदाग्रहरूपाया अपि भेदग्रहसन्निभतायास्तदुचितव्यव टी०-भासमानतापक्ष एव द्वितीयं विकल्प दूषयति-* रजताव भासाद्' इति, पराहतिमेव दर्शयति -“नखलु” इति, अना कलितभेद.-पुरूषः, भेदाप्रतिभासे पञ्चमीप्रथमयोः प्रयोग एव न सम्भवतीति श्रभिन्ने घटे ‘घटो घटादिति तयोः प्रयोगाभावाद्,भेद प्रतिभासे चानाकलितभेदमित्युक्तिव्याहता ॥ नन्वस्मादभिन्नमित्यत्रापि तुल्यः पथ्र्यनुयोगो, भेदस्याप्रतिभासे भिन्नविभक्तिकप्रयोगायोगातू, तत्प्रतिभासे वाऽभिन्नमित्युक्तव्यौहत त्वादू, मैवम्. एतत्प्रतियोगिभेदावभासाभावस्यैव तत्र विधीयमान त्वाद्, नचात्राप्येतत्प्रतियोगिकभेदोपलम्भाभावो विधीयत इति वा च्यं तयोर्भदाप्रतिभासे तद्वाचकशब्दस्यैवानुपपत्तेर्, उपलम्भे च व्याघातो वज्रलेपायत इति भावः ॥ तेन द्वितीयः पक्षः परिशिष्यत इत्याह- * तस्माद्” इति परमार्थस्थले हि प्रवृत्तिनिमित्त रजतज्ञानमभेदात्मकं, तत्सन्निभता ऋास्य विद्यते विविक्तस्य शानद्वयस्य भेदाग्रहणरूपा, ऽत:सा रजताऽऽ दानादिव्यवहारहतुरिति वक्तव्यमित्यर्थः । तत किमित्यत आह

  • तथाच ' इति, इद रजतं न भवतीति वाधकदशायां यत्र भेदो