पृष्ठम्:न्यायमकरन्दः.djvu/६९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अख्यातिवादनिरासः । मू०--तदुपपत्तौ च प्राचीनव्यवहारप्रसञ्जकस्य भ्रान्तित्वमपि लोकप्रसिद्धं, तथाच-यथार्थाः सर्वे विवा दास्पदीभूताः प्रत्ययाः प्रत्ययत्वात्संप्रतिपन्नसमीचीनप्रत्य दित्यप्रत्यूहमनुमानमिति ॥ तदिदं स्वसिद्धान्तश्रद्धरामात्रविजम्भितं , तथा हेि यत्तावद् (विज्ञानानां तज्ज्ञेयानाञ्चव विवेकाग्रहमात्रं वेि भूम) इत्यभाणि, तदत्यन्तापेशलं, तथाहि-विभेदस्वभा वाभ्युपगमे सर्वभावानां स्वयंप्रभत्वेन स्फुटतरावभासयो संविदोस्तद्धीनप्रकाशयोश्चार्थयोः कथं विवेकाग्रहवाचो युक्तिर्युक्तिमती, न खल्ववभासमानभावस्वभावस्यैवानव भासो भेदस्येति साम्प्रतम्, अबभासानवभासविरुद्ध धर्मसंसर्गस्यैकस्मिन्नसम्भवाद् ॥ टी०–“तदुपपत्तौ च' इति -‘तथाहेि' इति, स्वरूपस्यैव ? भेदत्वात्स्वसंवेदनतया च संवेदनस्वरूपस्य, तदधीनतया चार्थस्य स्फुरणान्न भेदाग्रह इति भावः ॥ स्वरूपावभासेपि भेदानवभासः किन्न स्यादित्याशङ्कय मैवं तस्य तद्भेदादिति परिहरति-“नखल ? इति ।

  • तस्य = भेदस्य, तभेदाद् = वस्तुस्वरूपण सहाभेदाद्, आख्यातिवादिमीमासक

नयेय वस्तुस्वरूपातिरेकेणाभावानङ्गीकारादिति भावः ।