सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द न्यायमकरन्द मू०-अथायमसंसर्गाग्रहमेव संसर्गयोग्ययोः सामान्य शेषयोर्विवेकाग्रहं ब्रूयात, तदपि रिक्तम्, असंसगों हि संसर्गाभावः, स च इदमिति रजतमिति च भासमान भावमात्रातिरेकी भवतां दुर्भणो भूभागमात्रातिरेकीव कुम्भाभावः, तथा च कथं प्रतिभासमानभावभिन्नस्तद् संसगों न गृह्यते । तथाच ‘साधारणाकाराकलितपौरस्यवस्तुनि रजत विभेदकाकारानवभासाद् रजते च स्वरूपतो विवेचका कारविधुरे स्मरणविपरिवर्तिनि विभेदानवभास' इति सिद्धान्तध्वान्तान्धीकृतस्वान्तानां प्रलापमात्रमिति सि अस्तु वा वस्तुनोस्तत्संविदोर्वा विवेकानवभास टी०-न स्वरूपाग्रहो भेदाग्रहः किन्त्वन्य एवेति शङ्कते-*अथ' इति, इदमिति सामान्यं, रजतमिति विशेषः, विपरीतं वा, अनयोरससर्गे विद्यमानोपि न गृह्यते दोषादितिभाव: ॥ अभावानङ्गीकारवादिनः संसर्गिस्वरूपातिरेकेणासंसर्गस्यानिरू पणात् तत्स्वरूपस्य च गृहीतत्वान्नासंसर्गाग्रह इति परिहरति “तदपि रिक्तम्” इति, भेदाग्रहस्य दुर्निरूपत्वमुपसंहरति-“त- था च साधारण' इति । भेदाग्रहमङ्गीकृत्य तस्य प्रवृत्तिहेतुत्वं न सम्भवतीत्याह अस्तुवा' इति